पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः सर्गः १४३

अयोध्याधिपतेः पुत्रौ शूरो समरदुर्जयो । इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥
सुप्रीवप्रियकामार्थ प्राप्तौ तत्र दुरासदौ । तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः ॥
रामः परबलामी युगान्तामिरिवोत्थितः । निवासवृक्षः साधूनामापन्नानां परा गतिः ।। १९
जानां संश्रयश्चैव यशसश्चैकभाजनम् । ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः ॥
धातूनामिव शैलेन्द्रो गुणानामाकरो महान् । तत् क्षमो न विरोधस्ते सह तेन महात्मना ।।
दुर्जयेनाप्रमेयेण रामेण रणकर्मसु । शूर वक्ष्यामि ते किंचिन्न चेच्छाभ्यभ्यसूयितुम् ॥
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् । यौवराज्येन सुप्रीवं तूर्ण साध्वभिषेचय ॥ २३
विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा । अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ।। २४
मुग्रीवेण च संप्रीति वैरमुस्मृज्य दूरतः । लालनीयो हि ते भ्राता यवीयानेप वानरः ॥
तत्र वा सनिहस्थो वा सर्वथा बन्धुरेव ते। न हि तेन समं बन्धुं भुवि पश्यामि कंचन ॥
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् । वैरमेतत् समुत्सृज्य तव पार्श्वे स तिष्टतु ॥
सुप्रीवो विपुलप्रीवस्तव बन्धुः सदा मतः । भ्रातुः सौहृदमालम्ब्य' नान्या गतिरिहास्ति ते ॥ २८
यदि ते मत्प्रियं कार्य यदि चावैषि मां हिताम् । याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ २९
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि ।
क्षमो हि ते कोसलराजसूनुना न विग्रहः शक्रसमानतेजसा ।
तदा हि नारा हितमेव वाक्यं तं वालिनं पध्यमिदं बभाषे ।
न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकले ॥

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिमहस्त्रिकायां संहितायां किष्किन्धाकाण्डे ताराहितोक्तिनाम पञ्चदशः सर्ग: षोडशः सर्गः वालिसंहारः

तामेवं युवतीं तारा ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ।।
गर्जतोऽस्य ससरम्भ भ्रातुः शत्रोविशेषतः । मर्षयिष्याम्यहं केन कारणेन वरानने ॥
अधर्षितानां शूराणां समेरध्वनिवर्तिनाम् । धर्षणामर्षणं भीर मरणादतिरिच्यते ।
सोडु न च समर्थोऽहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भ हीनप्रीवस्य गर्जतः ॥
न च कार्यों विषादस्ते राघवं प्रति मत्कृते । धर्मवश्व कृतक्षश्च कथं पापं करिष्यति ॥