पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ श्रीमहाल्मीकिरामायणे किष्किन्धाकाण्डे

निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः। रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे ।।
जानन्तस्तु स्वकं वीर्य स्त्रीसमक्ष विशेषतः । स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ॥
ननद क्रूरनादेन विनिर्मिन्दनियाम्बरम् । तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥
राजदोषपरामृष्टाः कुलनिय इवाकुलाः । द्रवन्ति च मृगाः शीघ्र भन्मा इव रणे हयाः ॥
पतन्ति च खगा भूमौ क्षीणपुण्या इव प्रहाः ॥
ततः स जीमूतगणप्रणादो नादं ह्यमुश्चत्त्वरया प्रतीतः ।
सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वानिलचञ्चलोमिः॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहमिकायां संहितायाम् किष्किन्धाकाण्डे सुग्रीवगर्जनं नाम चतुर्दशः सर्गः पञ्चदशः सर्गः ताराहितोक्तिः

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ।।
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ।।
स तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥
वाली दंष्ट्राकरालस्तु क्रोधादीप्तामिलोचनः । भात्युत्पतितपद्माभः समृणाल इव ह्रदः॥
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः । वेगेन चरणन्यासैारयन्निव मेदिनीम् ॥
तं तु तारा परिष्वज्य स्नेहादर्शितसौहृदा । त्रस्ता प्रोवाच संभ्रान्ता हितोदर्कमिदं वचः॥
साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः कल्वं त्यज भुक्तामिव स्रजम् ॥
कल्यमेतेन संग्रामं करिष्यसि हरीश्वर । वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥
सहसा तब निष्कामो मम तावन्न रोचते । श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ।।
पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि । निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः।।
त्वया वस्य निरस्तस्य पीडितस्य विशेषतः । इहत्य पुनरावानं शङ्कां जनयतीव मे ।
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादस्य च संरम्भो नैतदल्पं हि कारणम् ॥
नासहायमह मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ।।
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः । अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति ।
पूर्वमेव मया वीर श्रुतं कथयतो बचः । अङ्गदस्य कुमारस्य वक्ष्याम्यद्य हितं वचः ॥
अगदस्तु कुमारोऽयं वनान्तमुपनिर्गतः । प्रवृत्तिस्तेन कथिता चारैराप्तैनिवेदिता ।।