पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

सेन्द्रानपि सुरान् सर्वास्त्वं बाणैः पुरुषर्षभ । समर्थः समरे हन्तुं किं पुनर्बालिन प्रभो॥ ८
येन सप्त महासाला गिरिभूमिश्च दारिताः। बाणेनैकेन काकुत्स्थ स्थाता ते को रणामतः ॥ ९
अध मे विगतः शोकः प्रीतिरथ परा मम । सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥
तमद्यैव प्रियार्थ मे वैरिणं भ्रातृरूपिणम् । वालिनं अहि काफुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ११
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् । प्रत्युवाच महापाशो लक्ष्मणानुमतं वचः॥ १२
अस्मानच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमप्रतः । गत्वा चाइय सुग्रीव वालिन भ्रातृगन्धिनम् ॥१३
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् । वृक्षरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ १४
सुग्रीवो व्यनदद्धोरं वालिनो ह्वानकारणात् । गाढं परिहितो वेगानादेर्भिन्दनिवाम्बरम् ॥ १५
तं श्रुत्वा निनदं भ्रातुः कुद्धो वाली महाबलः । निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव'॥ १६
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयो?र बुधाङ्गारकयोरिव ।।
तलैरशनिकल्पैश्च वप्रकल्पैश्च मुष्टिमिः । जनतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ॥ १८
ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु । अन्योन्यसदृश वीरावुभौ देवाविवाश्विनौ । १९
यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः । ततो न कृतवान बुद्धि मोक्तुमन्तकरं शरम् ॥
एतस्मिनन्तरे भनः सुग्रीवस्तेन वालिना । अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे ॥ २१
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः । वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥ २२
तं प्रविष्टं वनं दृष्ट्रा वाली शापभयादितः । मुक्तो यसि त्वमित्युक्त्वा संनिवृत्तो महाद्युतिः ।। २३
राघवोऽपि सह भ्रात्रा सह चैव हनूमता । तदेव वनमागच्छत् सुग्रीवो यत्र वानरः ।। २४
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ॥ २५
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् । चैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥२६
तामेव वेलां वक्तव्यं त्वया राधव तत्त्वतः । वालिन न निहन्मीति ततो नाहमितो बजे ॥