पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३६
श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

बहुवर्षसहस्राणि स वै शैलो भविष्यति । ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् ।।
निश्चक्रमुर्वनात्तस्मात्तान् दृष्टा बालिरत्रवीत् । किं भवन्तः समस्ताश्च मतङ्गवनवासिनः ।।
मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् । ततस्ते कारणं सर्व तदा शापं च वालिनः ॥
शशंसुर्वानराः सर्वे वालिने हेममालिने । एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् ।।
स महर्षि तमासाद्य याचते स्म कृताञ्जलिः । महर्षिस्तमनाहत्य प्रविवेशाश्रमं तदा ॥
शापधारणमीतस्तु वाली विङ्खलतां गतः । ततः शापभयाद्रीत ऋश्यमूकं महागिरिम् ।।
प्रवेष्टुं नेच्छति हरिष्टुं वापि नरेश्वर । तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् ।। ६४
विचरामि सहामात्यो विषादेन विवर्जितः । एषोऽस्थिनियस्तस्य दुन्दुभैः संप्रकाशते ॥ ६५
वीर्योत्सेकानिरस्तस्य गिरिकूटोपमो महान् । इमे च विपुलाः सालाः सप्त शाखावलम्बिनः ॥ १६
यत्रैकं घटते वाली निष्पत्रयितुमोजसा । एतदस्यासम वीर्य मया राम प्रकीर्तितम् ।।
कथं तं वालिन हन्तुं समरे शल्यसे नृप । तथा शुवाणं सुग्रीवं प्रहसलक्ष्मणोऽत्रवीत् ॥
कस्मिन् कर्मणि निवृत्ते श्रदध्या वालिनो वधम् । तमुवाचाथ सुप्रीवः सप्त सालानिमान पुरा ॥ ६९
एवमेकैकशो वाली विव्याधाथ स चासकृत् । रामो विदारयेदेषां बाणेनैकेन चेद्रुमम् ।।
वालिनं निहतं मन्ये दृष्टा रामस्य विक्रमम् । हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण ॥
उद्यम्याथ प्रक्षिपेञ्चेत्तरसा द्वे धनुःशते । एवमुक्त्वा तु सुग्रीवो राम रक्तान्तलोचनम् ।।
ध्यात्वा मुहूर्त काकुत्स्थं पुनरेव वचोऽब्रवीत् । शूरश्च शूरपाती च* प्रख्यातबलपौरुषः ॥
बलवान वानरो वाली संयुगेष्वपराजितः । दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ।।
यानि संचिन्त्य भीतोऽहमृश्यमूकं समाश्रितः । तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् ।।
विचिन्तयन्न मुशामि ऋश्यमूकमहं त्विमम् । उद्विग्नः शतितश्चापि विचरामि महावने ।
अनुरक्तैः सहामात्यैहनुमत्प्रमुखैवेरैः । उपलब्धं च मे श्लाध्य सन्मित्रं मित्रवत्सल ।।
त्वामहं पुरुषव्यध्र हिमवन्तमिवाश्रितः । किं तु तस्य बलज्ञोऽहं दुर्धातुर्बलशालिनः ।।
अप्रत्यक्षं तु मे वीर्य समरे तव राघव । न खल्वहं त्वां तुलये नावमन्ये न भीषये ॥
कर्मभिस्तस्य भीमैस्तु कातर्य जनितं मम । कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ।।
सूचयन्ति परं तेजो भरमच्छन्नमिवानलम् । तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ॥
स्मितपूर्वमथो रामः प्रत्युवाच हरि प्रभुः । यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर ।।
प्रत्ययं समरे माध्यमहमुत्पादयामि ते । एवमुक्त्वा तु सुप्रीवं सान्त्वं लक्ष्मणपूर्वजः ।। ८३
राघवो दुन्दुभेः काय पादाङ्गुष्टेन लीलया। सोलयित्वा महाबाहुश्विक्षेप वशयोजनम् ।।
असुरस्य तनु शुष्कां पादाङ्गुष्ठेन वीर्यवान् । क्षिप्त दृष्टा ततः कार्य सुग्रीवः पुनरनवीत् ॥