पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः सर्गः

सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे । क्रीडव च सह स्त्रीभिरहं ते दर्पनाशनः ।।
यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् । हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥ ३६
स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् । विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ।। ३७
मत्तोऽयमिति मा संस्था यद्यभीतोऽसि संयुगे । मदोऽयं संप्रहारेऽस्मिन् वीरपाणं समर्थ्यताम् ।।३८
तमेवमुक्त्वा संक्रुद्धो मालामुक्षिष्य' काञ्चनीम् । पित्रा दत्ता महेन्द्रेण युद्धाय व्यवतिष्ठत ॥ ३५
विषाणयोर्गृहीत्वा तं दुन्दुभि गिरिसंनिभम् । अविध्यत तदा वाली विनदन् कपिकुञ्जरः ।।
वाली व्यापातयांचक्रे ननदं च महास्वनम् । श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥ ४१
तयोस्तु क्रोधसंरम्भात् परस्परजयैपिणोः । युद्धं समभवद्धोरं दुन्दुभेर्वानरस्य च ॥
अयुध्यत तदा वाली शक्रतुल्यपराक्रमः । मुष्टिभिर्जानुभिः पद्भिः शिलाभिः पादपैस्तथा ॥
परस्परं नतोस्तत्र वानरासुरयोस्तदा । 'आसीद्धीनोऽसुरो युद्धे शक्रसू नुर्व्यवर्धत ॥
तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् । युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ।।
पपात व महाकायः क्षितौ पञ्चत्वमागतः । तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।। ४६
चिक्षेप बलवान् वाली वेगेनैकेन योजनम् । तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः ।।
प्रपेतुर्भारुसोक्षिप्ता मतङ्गस्याश्रमं प्रति । तान् दृष्ट्वा पतितांस्तस्य मुनिः शोणितविग्रुपः ॥
क्रुद्धस्तम्य महाभागश्चिन्तयामास को न्वयम् । येनाइं सहसा स्पृष्टः शोणितेन दुरात्मना ।। ४९
कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः । इत्युक्त्वाथ विनिष्कम्य ददर्श मुनिपुंगवः ॥ ५०
महिषं पर्वताकारं गतासु पतितं भुवि । स तु विज्ञाय तपसा वानरेण कृतं हि तत् ।। ५१
उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति । इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् ।। ५२
वनं मत्संशय येन दूषितं रुधिरनवैः। संभग्नाः पादपाश्चेमे क्षिपतेहासुरी तनुम् ।। ५३
समन्ताद्योजनं पूर्णमाश्रमं मामकं यदि । आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ॥
ये चापि सचिवास्तस्य संश्रिता मामकं वनम् । न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ ५५
यदि तेऽपीह तिष्ठन्ति शपिप्ये तानपि ध्रुवम् । वनेऽस्मिन् मामकेऽत्यर्थ पुत्रवत् परिपालिते ॥ ५६
पत्राकुरविनाशाय फलमूलाभवाय च । दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् ।।