पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः । सोऽहं त्रस्तो वने भीतो वसाम्युझान्तचेतनः ।।
बालिना निकृतो भ्रात्रा कृतवरश्च राघव । वालिनो मे महाभाग भयार्तस्याभय कुरु ।।
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा । एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ॥
प्रत्यभाषत काकुत्थः सुग्रीवं प्रहसन्निव । उपकारफलं मित्रं विदित मे महाकपे ।
वालिन तं वधिज्यामि तव भार्यापहारिणम् । अमोघाः सूर्यसंकाशा ममैते निशिताः शराः ।।
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः । कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः ॥
तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव । तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः ।।
शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् । स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ।।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमनवीत् ॥
तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम् ।
तथा कुरु त्वं नरदेव वैरिणं यथा न हिंस्यात् स पुनर्ममाग्रजम् ।
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि ।
सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ।।

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां किष्किन्धाकाण्डे सुग्रीवसख्यं नाम पञ्चमः सर्गः भूषणप्रत्यभिज्ञानम्

पुनरेवाप्रवीत् प्रीतः सुप्रीषो रघुनन्दनम् । अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ॥
हनुमान यानिमित्त त्वं निर्जन वनमागतः । लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ॥
रक्षसापट्टता भार्या मैथिली जनकात्मजा । त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥ ३
अन्तरप्रेप्सुना तेन हत्या गृधं जटायुषम् । भार्यावियोगजे दुःखमचिरात्त्वं विमोक्ष्यसे ।
अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा । रसातले वा वर्तन्ती वर्तन्ती वा नभःस्थले ॥
अहमानीय दास्यामि तव भार्यामरिंदम । इदं तथ्यं मम वचस्त्वमवेहि च राघव ।।
न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः । तब भार्या महाबाहो भल्यं विषकृतं यथा ॥
त्यज शोकं महाबाहो तो कान्तामानयामि ते । अनुमानात्तु जानामि मैथिली सा न संशयः ॥ ८
हियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा । क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।।
स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा । आत्मनापञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ।।