पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९ प्रथमः सर्गः नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्शया । गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ।। ३९ रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाम्रो दण्डकान् प्रविवेश ह ।। प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह॥ ४१ सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।। खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ । वसतस्तस्य रामस्य वने वनचरैः सह ।। ऋषयोऽभ्यागमन् सर्वे वघायासुररक्षसाम् । स तेषां प्रतिशुश्राव राक्षसानां तथा वने । प्रतिक्षातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ।। तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ४६ ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ।। निजघान रणे रामस्तेषां चैव पदानुगान् । वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥ रक्षसां निहतान्यासन् सहस्राणि चतुर्दश । ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः ॥ सहायं वरयामास मारीचं नाम राक्षसम् । वार्यमाणः सुबहुशो मारीचेन स रावणः॥ न विरोधो बलवता क्षमो रावण तेन ते । अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ जगाम सहमारीचस्तस्याश्रमपदं तदा । तेन मायाविना दूरमपवाह्य नृपात्मजौ ।। जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् । गृध्रं च निहतं दृष्टा हृतां श्रुत्वा च मैथिलीम् ॥ ५६ राघवः शोकसंतप्तो विललापाकुलेन्द्रियः । ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।। ५४ मार्गमाणो वने सीतां राक्षसं संददर्श ह । कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।। तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः । स चापि कथयामास शबरीं धर्मचारिणीम् ।। श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् । सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ शबर्या पूजितः सम्यग्रामो दशरथात्मजः । पम्पातीरे हनुमता संगतो वानरेण ह ॥ हनुमद्वचनाच्चैव सुग्रीवेण समागतः । सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ।। आदितस्तद्यतावृतं सीतायाश्च विशेषतः । सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ।। चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् । ततो वानरराजेन वैरानुकथनं प्रति ।। ६१ रामायावेदितं सर्वं प्रणयाद्दुःखितेन च । प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।। वालिनश्च बलं तत्र कथयामास वानरः । सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् । दर्शयामास सुग्रीवो महापर्वतसंनिभम् ।। उस्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः । पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ बिभेद च पुनः सालान् सप्तैकेन महेषुणा । गिरिं रसातलं चैव जनयन् प्रत्ययं तदा । ६६