पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः सर्गः

नदन्ति कामं मुदिताः शकुनाः सङ्घशः कलम् । आयन्त इवान्योन्य कामोन्मादकरा मम ॥ ४६
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया । नूनं परवशा सीता सापि शोचत्यहं यथा ॥ ४७
नूनं न तु वसन्तोऽयं देशं स्पृशति यत्र सा । कथं हासितपद्माक्षी वर्तयेत् सा मया विना ।।
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया । किं करिष्यति सुश्रोणी सा तु निर्भसिता परैः ।। ४९
श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिमापिणी । नूनं वसन्तमासाथ परित्यक्ष्यति जीवितम् ॥ ५०
दृढं हि हृदये बुद्धिर्मम संप्रति वर्तते । नालं वर्तयितुं सीता साध्वी मद्विरहं गता ।।
मयि भावो हि वैदेह्यास्तत्त्वतो विनिवेशितः । ममापि भावः सीतायां सर्वथा विनिवेशितः ॥ ५२
एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम ।।
सदा सुखमहं मन्ये यं पुरा सह सीतया । मारुनः स पिना सीतां शोकं वर्धयते मम ॥
तां विना स विहंगोऽसौ पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रष्टमभिनर्दति ॥
एष वै तत्र वैदेह्या विहगः प्रतिहारकः । पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ।। ५६
शृणु लक्ष्मण संनादं वने मदविवर्धनम । पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ।।
विक्षिप्तां पवनेनैतामसी तिलकमञ्जरीम् । पट्पदः सहमाभ्येति मदोद्धूतामिव प्रियाम् ॥ ५८८
कामिनामयमत्यन्तमशोकः डोकवर्धनः । स्तबकैः पवनोरिक्षप्तैस्तर्जयन्निव मां स्थितः ।। ५९
अमी लक्ष्मण दृश्यन्ते चूताः कुमुमशालिनः । विभ्रमोसिक्तमनसः सागरागा नरा इव ॥ ६०
सौमित्रं पश्य पम्पायाचित्रासु वनराजिषु । किनरा नरशार्दूल विचरन्ति ततस्ततः ॥ ६१
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः । नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ।।
६२
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता । हंगकारण्डवाकीर्णा पन्या सौगन्धिकान्विता ॥
जले तरुणसूर्याभः पट्पदाहतकेसरैः । पङ्कजैः शोभते पम्पा समन्तादभिसंवृत्ता ।। ६४
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा' । मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ।।
६५
पवनाहितवेगाभिरूमिभिर्विमलेऽम्भसि । पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥
पनपत्रविशालाक्षी सततं प्रियपवजाम । अपश्यतो मे वैदेही जीवितं नाभिरोचते ॥
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् । स्मारयिष्यति कल्याणी कल्याणतरवादिनीम् ॥ ६८
शक्यो धारयितुं कामो भवेदभ्यागतो मया । यदि भूयो वसन्तो मां न हन्यात पुष्पितद्रुमः ॥ ६९
यानि रम रमणीयानि तया सह भवन्ति मे । नान्येवारमणीयानि जायन्ते मे तया विना ।।
पनकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते । सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ ७१