पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चसप्ततितमः सर्गः

स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेका लक्ष्मणं राघवोऽब्रवीत् ।।
दृष्टोऽयमाश्रमः सौम्य बलाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो नानाविहगसेवितः ।।
सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः ।
प्रनष्टमशुभं सत्तत् कल्याणं समुपस्थितम् । तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण संप्रति ॥
हृदये हि नरव्याघ्र शुभमाविर्भविष्यति । तदागच्छ गमिष्यावः पम्पा तो प्रियदर्शनाम ।
ऋश्यमूको गिरियंत्र नातिदूरे प्रकाशते । यस्मिन् वसति धर्मात्मा सुग्रीवोऽशुमतः सुतः ।।
नित्यं वालिभयत्रस्तश्चतुर्भिः सह वानरैः । अभित्वरे च तं द्रष्टुं सुप्रीवं वानरर्षभम् ।।
तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् । एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् ।।
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः । आश्रमात्तु ततस्तस्मानिष्कम्य स विशां पतिः ।।
आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः । स ददर्श ततः पुण्यामुदारजनसेविताम् । ११
नानाद्रुमलताकीणां पम्पा पानीयवाहिनीम् । पझैः सौगन्धिकैस्ताम्रा शुक्ला कुमुदमण्डलैः ।।
नीलां कुवलयोद्बाटैर्बहुवणां कुथामिव । स तामासाद्य वै रामो दूरादुकवाहिनीम् ॥ १३
मतङ्गसरसं नाम ह्रदं समवगाहत । अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् ।।
पुष्पिताम्रवणोपेतां बर्हिणोपुष्टनादिताम् । तिलकैर्वीजपूरैश्च धवैः शुक्लद्रुमैस्तथा ।
पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः । मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा ॥ १६
अशोकैः समपर्णैश्च केतकैरतिमुक्तकैः । अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम् ।।
समीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलद्रुमम् । कोयष्टिकैश्चार्जुनकैः शतपत्रैश्च कीरकैः ।।
एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत् । ततो जग्मतुरव्यौ गपची सुसमाहितौ ॥ १९
तद्वनं चैव सरसः पश्यन्तौ शफुनैर्युतम् । स ददर्श ततः पम्पा शीतवारिनिधिं शुभाम् ॥ २०
प्रहृष्टनानाशकुनां पादपैरुपशोभिताम् । स रामो विविधान् वृक्षान् सरांसि विविधानि च ॥ २१
पश्यन् कामाभिसंतप्तो जगाम परमं हृदम् । पुष्पित्तोपवनोपेतां सालचम्पकशोभिताम् ।
षट्पदीपसमाविष्टां श्रीमतीमतुलप्रभाम् । स्फटिकोपमतोयाढ्यां श्क्ष्णवालुकसंयुताम् ।।
स तां दृष्टा पुनः पम्पां पनसौगन्धिकैर्युताम् । इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ॥ २४
अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुण्डितः । ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः ।। २५
हरेशरजोनाम्नः पुत्रस्तस्य महात्मनः । अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ।। २६
सुप्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ । इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ।।
राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा । कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम् ।।