पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्वदाभिगतः सद्भि: समुद्र इव सिन्धुभिः । आर्यः सर्वसमश्चैव सदैक प्रियदर्शन: ॥ १६
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १७
विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १८
धनदेन समस्त्यागे सत्ये धर्म इवापरः । तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ॥ १९
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । प्रकृतीनां हितैर्युत्कं प्रकृतिप्रियकाम्यया ॥ २०
यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः । तस्याभिषेकसंभारान् दृष्ट्वा भार्याथ कैकयी ॥ २१
पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २२
स सत्यवचनाद्राजा धर्मपाशेन संयतः। विवासयामास सुतं रामं दशरथः प्रियम् ॥ २३
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। २४
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः ॥ २५
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् । रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥ २६
जनकस्य कुले जाता देवमायेव निर्मिता । सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः।। २७
सीताप्यनुगता रामं शशिनं रोहिणी यथा । पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ २८
शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २९
गुहेन सहितो रामो लक्ष्मणेन च सीतया । ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ॥ ३०
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रयः ।। ३१
देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम् । चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ।। ३२
राजा दशरथः स्वर्गं जगाम विलपन् सुतम् । मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजेः॥ ३३
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः । स जगाम वनं वीरो रामपादप्रसादकः ।। ३४
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् । अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ।। ३५
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । रामोऽपि परमोदारः सुमुखः सुमहायशाः॥ ३६
न चैच्छत् पितुरादेशाद्राज्यं रामो महाबलः । पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः।। ३७
निवर्तयामास ततो भरतं भरताग्रजः । स काममनवाप्यैव रामपादावुपस्पृशन् । ३८