पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ श्रीमहाल्मीकिरामायणे अरण्यकाण्डे

एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् । राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ।।
दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः । श्रुवं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे । १९
एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम् । शबरी दर्शयामास वावुभौ सद्वनं महत् ।।
पश्य मेघधनप्रख्यं मृगपक्षिसमाकुलम् । मतगवनमित्येव विश्रुतं रघुनन्दन ।
२१
इह ते भावितात्मानो गुरवो मे महावने । जुहवांचक्रिरे 'देहं मन्त्रवन्मन्त्रपूजितम् ।।
इयं प्रत्यक्स्थली वेदियंत्र ते मे सुसत्कृताः । पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिमिः करैः ।। २३
तेषां तपःप्रभावेण पश्याद्यापि रघुबह । द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः ।। २४
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः । चिन्तितेऽभ्यागतान् पश्य सहितान् सम सागरान् ॥ २५
कृताभिषेकैस्तैयस्ता वल्कलाः पादपेष्विह । अद्यापि नाक्शुष्यन्ति प्रदेशे रघुनन्दन ॥ २६
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै । पुष्पैः कुवलयैः सार्ध म्लानत्वं नोपयान्ति वै ॥ २७
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया । तदिच्छाम्यभ्यनुशाता त्यक्तुमेतत् कलेवरम् ॥ २८
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् । मुनीनामाश्रमो येषामहं च परिचारिणी ।। २९
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः । प्रहर्षमतुलं लेभे आश्चर्यमिति चाप्रवीत् ।।
तामुवाच ततो रामः शबरी संशितव्रताम् । अर्चितोऽहं त्वया भक्त्या गच्छ कामं यथासुखम्।।३१
इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा । तस्मिन् मुहूर्ते शबरी देहं जीणं जिहासती ॥ ३२
अनुज्ञाता तु गमेण हुत्वात्मानं हुताशने । ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा॥ ३३
दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना । दिव्याम्बरधरा तत्र बभूव प्रियदर्शना ।।
विराजयन्ती तं देशं विद्युत्सौदामनी यौँ । यत्र ते सुकृतात्मानो विहरन्ति महर्षयः ।।
तत्पुण्यं शबरी स्थानं जगामात्मसमाधिना ॥

इत्याचे श्रीमद्रामायणे याल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् अरण्यकाण्डे शबरीस्वर्गप्रासिनाम चतुःसप्ततितमः सर्गः पञ्चसप्ततितमः सर्गः पम्पादर्शनम्

दिवं तु तस्यां यातायां शबयां स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥