पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम । सायाह्ने विचरन् राम विटपीमाल्यधारिणः ।। २०
शीतोदकं च पम्पाया दृष्टा शोक विहाम्यसि । सुमनोभिश्चितास्तत्र तिलका नक्तमालकाः ॥॥ २१
उत्पलानि च फुल्लानि पङ्कजानि च राघव । न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ।।
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव । मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः॥ २३
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः । ये प्रपेतुर्मही तूर्ण शरीरात् स्वेदबिन्दवः ।।
तानि जातानि माल्यानि मुनीनां तपसा तदा । स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥ २५
तेषामद्यापि तत्रैव दृश्यते परिचारिणी । श्रमणी शबरी नाम काकुतथ चिरजीविनी ॥ २६
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् । दृष्टा देवोपमं राम स्वर्गलोकं गमिष्यति ॥
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् । आश्रमस्थानमतुलं गुह्यं काकुत्थ पश्यसि ।।
न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् । विविधान्तत्र वै नागा वने तस्मिंश्च पर्वते ।। २९
ऋषेस्तत्र मतङ्गस्य विधानात्तच्च काननम् । मतङ्गवनमित्येव विश्रुतं रघुनन्दन ।।
तस्मिन्नन्दनसंकाशे देवारण्योपमे वने । नानाविहगसंकीर्ण रस्यसे राम निर्वृतः॥ ३१
ऋश्यमूकश्च पम्पायाः पुरस्तात् पुष्पितद्रुमः । सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ॥ ३२
उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः । शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।।
यत्स्वप्ने लभते वित्तं तन् प्रबुद्धोऽधिगच्छति । न त्वेनं विषमाचारः पापकर्माधिरोहति ।। ३४
यस्तु तं विपमाचारः पापकर्माधिरोहति । तत्रैव प्रहरन्त्येनं सुभमादाय राक्षसाः ।।
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् । क्रीडतां राम पम्पायां मतङ्गारण्यवामिनाम ॥
सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः । प्रचरन्ति पृथकीर्णा मेघवर्णास्तरस्विनः ।। ३७
ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् । निर्वताः संविगाहन्ते वनानि वनगोचराः ।। ३८
ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान । रुरूनपेतापजयान दृष्ट्वा शोकं प्रहास्यसि ।।
राम तस्य तु शैलस्य महती शोभते गुहा । शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ॥ ४०
तस्या गुहायाः प्राग्छारे महाझीतोदको हृदः । फलमूलान्वितो रम्यो नानामृगसमावृतः ।। ४१
तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः । कदाचिच्छिखरे तस्य पर्वतरयावतिष्ठते ।।
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ । स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥ ४३
तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ । प्रस्थितौ त्वं प्रजस्वेति वाक्यमूचतुरन्तिके ।।
गम्यतां कार्यासिद्धयर्थमिति तावब्रवीत् स च । सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ।। ४५