पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिसप्ततितमः सर्गः १०९

स मेरुशृङ्गाप्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वा श्रिताम् ।।
प्लवंगमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् अरण्यकाण्डे सीताधिगमोयायो नाम द्विसप्ततितमः सर्गः त्रिसप्ततितमः सर्गः ऋश्यमूकमार्गकथनम्

दर्शयित्वा तु रामाय सीतायाः परिमार्गणे । वाक्यमन्वर्थमर्थनः कबन्धः पुनरब्रवीत् ॥ १
एप राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः । प्रतीची दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥
जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ॥
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ॥
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः । तानारुह्याथवा भूमौ पातयित्वा च तान बलात् ॥५
फलान्यमृतकल्पानि भक्षयन्तो गमिष्यथः। तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ।। ६
नन्दनप्रतिम चान्यन् कुरवो यत्तरा इव । सर्वकामफला यत्र पादपास्तु मधुखवाः ।।
मर्वे च ऋतवस्तत्र वने चैत्ररथे यथा । फलभारानतास्तत्र महाविटपधारिणः ॥
शोभन्ते सर्वतस्तत्र मेघपर्वतसंनिभाः। तानारुह्याथवा भूमौ पातयित्वा यथासुखम् ।।
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति । चक्रमन्तौ वरान देशाझौलाच्छैलं वनावनम् ॥ १०
ततः पुष्करिणीं वीरौ पम्पा नाम गमिष्यथः । अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥ ११
राम संजातवालूकां कमलोत्पलशालिनीम् । तत्र हंसाः प्लवाः क्रौञ्चाः फुरराश्चैव राघव ॥ १२
वल्गुस्वना निकूजन्ति पम्पासलिलगोचराः । नोद्विजन्ते नरान् दृष्ट्रा क्धस्याकोविदाः पुरा ॥ १३
घृतपिण्डोपमान स्थूलारतान् द्विजान भक्षयिष्यथः । रोहितान् वक्रतुण्डांश्च नडमीनांश्च राघव ।।१४
पम्पायामिपुभिर्मत्स्यास्तत्र राम वरान हतान् । निम्त्वपक्षानयस्तमानकृशानेककण्टकान् ॥ १५
तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति । भृशं ते खादतो मत्स्यान पम्पायाः पुष्पसंचये ॥१६
पनगन्धि शिव वारि स्वादुशीतमनामयम् । उद्धृत्य सतताप्लिष्टं रौप्यस्फाटिकसंनिभम् ।।
असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति । स्थूलान् गिरिगुहाशय्यान वानरान् वनचारिणः ॥ १८
सायाहे विचरन् राम दर्शयिष्यति लक्ष्मणः । अपां लोभानुपावृत्तान् वृषभानिव नर्दतः ॥ १९