पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०७ द्विसप्ततितमः सर्गः

सिंहद्विपमृगव्याघ्रान भक्षयामि समन्ततः। स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः ॥ १५
छेत्स्यते समरे बाहू तदा स्वर्ग गमिष्यसि । अनेन वपुषा राम वनेऽस्मिन् राजसत्तम ।
यद्यत् पश्यामि सर्वस्य ग्रहणं साधु रोचये । अवश्य ग्रहणं रामो मन्येऽहं समुपैष्यति ।।
इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः । स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव ॥ १८
शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा । अहं हि मतिसांचिव्यं करिष्यामि नरर्षभ । १९
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना । एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः॥ २०
इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः। रावणेन हृता भार्या मम सीता यशस्विनी ॥ २१
निष्कान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् । नाममात्रं तु जानामि न रूपं तस्य रक्षसः ।। २२
निवासं वा प्रभावं वा वयं तस्य न विद्महे । शोकार्तानामनाथानामेवं विपरिधावताम् ।। २३
कारुण्यं सदृशं कर्तुमुपकारेण वर्तताम् । काष्टान्यादाय शुष्काणि काले भग्नानि कुखरैः ।।
धक्ष्यामस्त्वां वयं वीर श्वश्रे महति कल्पिते । स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ॥ २५
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः । एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ॥ २६
प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् । दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ॥ २७
यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः । अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो॥२८
राक्षसं ते महावीर्य सीता येन हृता तव ! विज्ञानं हि मम भ्रष्टं शापदोषेण राघव ।। २९
स्वकृतेन भया प्राप्तं रूपं लोकविहितम् । किं तु यावन्न यात्यस्तै सविता श्रान्तवाहनः ॥
तावन्मामवटे क्षिप्त्वा दह राम यथाविधि । दग्धस्त्वयाहमवटे न्यायेन रग एन ।
वक्ष्यामि तमहं वीर यस्तं हास्यति राक्षसम् । तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव ।। ३२
कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः । न हि तस्यास्त्यविज्ञातं त्रिपु लोकेषु राधव ॥ ३३

सर्वान परिमृतो लोकान् पुरासौ कारणान्तरे ।। इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम अरण्यकाण्डे कबन्धशापाख्यानं नाम एकसप्ततितमः सर्गः