पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

अस्य देवप्रभावस्य वसतो विजने वने । रक्षसापहृता भार्या यामिच्छन्ताविहागतो।। १५
त्वं तु को बा किमर्थ वा कबन्धसशो वने । आस्येनोरसि दीप्लेन भन्मजलो विवेष्टसे ॥ १६
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः । उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ।
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम् । दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ।।
विरूपं यह मे रूप प्राप्तं यविनयाधथा । तन्मे शृणु मरव्याघ्र तत्त्वतः शंसतस्तव ॥ १९

इत्याचे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् अरण्यकाण्डे कबन्धबाहुच्छेदो नाम सप्ततितमः सर्ग: एकसप्ततितमः सर्गः कबन्धशापाख्यानम्

पुरा राम महाबाहो महाबलपरक्रमम् । रूपमासीन्ममाचिन्न्यं त्रिपु लोकेषु विश्रुतम् ॥ १
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः । सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ।।
ऋषीन वनगतान् गम त्रासयामि ततस्ततः । ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥ ३
संचिन्वन् विविधं वन्यं रूपेणानेन धर्पितः । तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ।।
जदेव नृशंसं ते रूपमस्तु विगार्हतम् । स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ।।
अभिशापतस्येति' तेनेदं भाषितं वचः । यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने ।
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम । श्रिय पिराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ।। ७
इन्द्रकोपादिदं रूप प्राप्तमेवं रणाजिरे । अहं हि तपसोग्रेण पितामहमतोषयम् ॥
दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत् । दीर्घमायुर्मया प्राप्तं किं मे शकः करिष्यति ॥
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् । तस्य बाहुप्रमुक्तेन वश्रेण शतपर्वणा ।।
सक्थिनी चैव मूर्धा च शरीरे संप्रवेशितम् । स मया याच्यमानः सन्नानयद्यमसादनम् ॥
११
पितामहवचः सत्यं तदस्त्विति ममात्रवीत् । अनाहारः कथं शक्तो भन्नसक्थिशिरोमुखः ।।
१२
वश्रेणाभिहतः कालं सुदीर्घमपि जीवितुम । एवमुक्तस्तु मे शको बाहू योजनमायतौ ।। १३
प्रादादास्यं च मे कुक्षौ तीक्ष्णदंदमकल्पयनासोऽहं भुजाभ्यां दीर्घाभ्यां संक्षिप्यास्मिन् वनेचरान्॥१४