पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः । कर्णनासस्तनं चास्या निधकारिसूदनः॥
कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च । यथागतं प्रदुद्राव राक्षसी भीमदर्शना । १८
तस्यां गतायां गहनं विशन्तौ वनमोजसा । आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ।। १९
लक्ष्मणस्तु महातेजाः सत्त्ववाशीलवान्शुचिः । अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥२०
स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः । प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ २१
तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं हितम् । ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ।। २२
एष कञ्चुलको नाम पक्षी परमदारुणः । आवयोर्विजयं युद्धे शंसन्निव विनर्दति ।। २३
तयोरन्वेषतोरेवं सर्व तद्वनमोजसा । संजो विपुलः शब्दः प्रभञ्जनिव तद्वनम् ॥
संवेष्टितमिवात्यर्थ गगनं मातरिश्वना । वनस्य तस्य शब्दोऽभूहिषमापूरयन्निव ।।
तै शब्द कासमाणस्तु रामः कक्षे सहानुजः । ददर्श सुमहाकायं राक्षसं विपुलोरसम् ॥ २६
आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् । विवृद्धमशिरोमीवं कबन्धमुद्रेमुखम ॥
रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् । नीलमेधनिभं रौद्र मेघस्तनितनिःस्वनम् ।।
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता । महापक्ष्मेण पिङ्गेन विपुलेनायतेन च । २९
एकेनोरसि धोरेण नयनेनाशुदर्शिना । माहदंष्ट्रोपपन्नं तं लेलिहान महामुखम् ।।
३०
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् । घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ॥ ३१
कर। विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान् । आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपाम् ॥
स्थितमावृत्य पन्या usो प्रपन्नगो । अथ तो समभिक्रम्य क्रोशमाने ददर्शतः ॥ ३३
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् । कबन्धमिव संस्थानादतिघोरप्रदर्शनम् ॥ ३४
स महाबाहुरत्यर्थ प्रसार्य विपुल मुजौ । जग्राह सहितावेव राघवौ पीडयन् बलात् ।।
खड्गिनौ दृढधन्वानी तिग्मतेजोवपुर्धरौ । भ्रातरौ विवशं प्राप्ती कृष्यमाणौ महाबलौ ॥ ३६
तत्र धैर्येण शूरस्तु राघवो नैव विन्यथे । बाल्यादनाश्रयत्वाच लक्ष्मणस्त्वतिविव्यथे ।
उवाच च विपण्णः सन् राघवं राघवानुजः । पश्य मां वीर विवशं राक्षसस्य वशं गतम् ।।
मकैकेन विनिर्मुक्तः परिमुञ्चस्व राघव । मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम् ॥ ३९
अधिगन्तासि वैदेहीमचिरणेति मे मतिः । प्रतिलभ्य च काकुत्थ पितृपैतामही महीम् ॥
तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा । लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् ॥
मा स्म त्रासं कृथा वीर न हि त्वाग्विषीदति । एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ॥
पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः । को युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ । ४३
घोरं देशमिम प्राप्ती दैवेन मम चाक्षुपौं । वदतं कार्यमिह वां किमर्थ चागतौ युवाम् ।। ४४