पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनसप्ततितमः सर्गः १०३

उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ । शाखदृष्टेन विधिना जलं गृध्राय राघवी ।।
स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ।
स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः ।
महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ।।
कृतोदको तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः ।
प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् अरण्यकाण्डे जटायुस्संस्कारो नाम अष्टपष्टितमः सर्गः एकोनसप्ततितमः सर्गः कबन्धग्राहः

कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ । अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ।।
तौ दिश दक्षिणां गत्वा शरचापासिधारिणी । अविप्रहतमैत्याको पन्थानं प्रतिजग्मतुः॥ २
गुल्मैक्षेश्च बहुभिर्लताभिश्च प्रवेष्टितम् । आवृतं सर्वतो दुर्ग गहनं घोरदर्शनम् ॥
व्यतिक्रम्य तु वेगेन 'गृहीत्वा दक्षिणां दिशम । सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥
ततः परं जनस्थानान्त्रिकोश गम्य राघवौ । क्रौञ्चारण्य विशन होता ।।
नानामेघघनप्रख्यं प्रहष्टमिव सर्वतः । नानाचणैः शुभैः पुष्पैः मृगपक्षिगणैर्वृतम् ।।
दिदृक्षमाणौ वैदेही तद्वनं तौ विचिक्यतुः । तत्र तत्रातिष्ठन्तौ सीताहरणकर्शितौ ॥
ततः पूर्वेण तो गत्वा त्रिक्रोश भ्रातरौ तदा । क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे ।।
दृष्टा तु तद्वनं घोरं बहुभीममृगद्विजम् । नानासत्त्वसमाकीर्ण सर्वं गहनपादपम् ।।
दुशाते गिरौ तत्र दरी दशरथात्मजौ । पातालसमगम्भीरां तमसा नित्यसंवृताम् ।।
आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः । दशाते महारूपां राक्षसी विकृताननाम् ॥ ११
भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् । लम्बोदरी तीक्ष्णदंष्ट्रां कराला परुषत्वचम् ।। १२
भक्षयन्ती मृगान् भीमान विकटां मुक्तमूर्धजाम् । प्रेक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ॥ १३
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरप्रतः । एहि रस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम् ।।
उवाच चैनं वचनं सौमित्रिमुपगूध सा । अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः॥ १५
नाथ पर्वतकूटेषु नदीनां पुलिनेषु च । आयुःशेषमिमं वीर त्वं मया सह रंस्यसे ।। १६