पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहाल्मीकिरामायणे अरण्यकाण्डे

उपाध्यन्ति मे प्राणा दृष्टिभ्रमति राघवे । पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ।
येन यातो मुहूर्तेन सीतामादाय रावणः । विप्रनष्टं धनं क्षिप्रं तत्वामी प्रतिपद्यते । १२
बिन्दो नाम मुहूर्तोऽसौ स प काकुत्स्थ नाबुधत् । त्वत्प्रियां जानकी हत्वा रावणो राक्षसेश्वरः।।१३
अपवदिशं गृह्य क्षिप्रमेव विनश्यति । न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ।। १४
बैदेशा रस्यसे मिमं हत्वा तं राक्षसं रणे । असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ॥
भास्यात् सुस्राव रुधिरं नियमाणस्य सामिषम् । पुत्रो विश्वसः साक्षाद्धाता वैश्रवणस्य च ॥ १६
इत्युक्त्वा दुर्लभान प्राणान् मुमोच पतगेश्वरः । श्रूहि बहीति रामस्य सुवाणस्य कृताञ्जलेः ॥ १७
त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् । स निक्षिप्य शिरो भूभौ प्रसार्य चरणौ तदा ॥१८
विक्षिप्य च शरीरं वं पपात धरणीतले । सं गृध्र प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ॥ १९
रामः सुबहुभिर्युःखैर्दीनः सौमित्रिमब्रवीत् । बहूनि रक्षसां वासे वर्षाणि वसता सुखम् ।।
अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा । अनेकवार्षिको यस्तु चिरकालसमुत्थितः ।। २१
सोऽयमय हतः शेते कालो हि दुरतिक्रमः । पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे ।।
सीतामभ्यवनो वै रावणेन बलीयसा । गृध्रराज्यं परित्यज्य पितृपैतामहं महत् ।।
२३
मम हेतोरयं प्राणान् मुमोच पतगेश्वरः । सर्वत्र खलु दृश्यन्ते साधयो धर्मचरिणः ॥ २४
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि । सीताहरणजं दुःखं न मे सौम्य तथागतम् ॥ २५
क्यानाशे गृध्रस्य मत्कृते च परंतप । राजा दशरथः श्रीमान् यथा मम महायशाः ।। २६
पूर्णताच । सौमित्र हर काष्ठामि निर्मथिष्यामि पावकम.॥
गृध्रराज विषक्षामि मत्कृते निधनं गतम् । नाथं पतगलोकस्य चितामारोपयाम्यहम् ।।
इमं वक्ष्यामि सौमित्रे इतं रौद्रेण रक्षसा । या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः ॥
अपरावर्तिनां या च या च भूमिप्रदायिनाम् । मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ।। ३०
गृध्रराज महासत्त्व संस्कृतश्च मया ब्रज । एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ।। ३१
ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः । रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् ॥ ३२
स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम् । रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः ॥ ३३
शनाय बदौ रामो रम्ये हरितशाहले । यत्तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।। ३४
तत् स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह । ततो गोदावरी गत्वा नदी नरवरात्मजौ।