पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् ।
अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ।।१३
पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता।
तदप्ययुक्तं न हि सा कदाचिन्मया विना गच्छति पङ्कजानि ॥१४
कामं त्विदं पुष्पितवृक्षपण्डं नानाविधैः पक्षिगणैरुपेतम।
वनं प्रयाता नु तदप्ययुक्तमेकाकिनी सातिबिभेति भीरुः ॥१५
आदित्य भो लोककृताकृतज्ञ लेकस्य सत्यानृतकर्मसाक्षिन ।
मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकवशस्य नित्यम ।।१६
लोकेषु सर्वेषु च नास्ति किचिद्यत्ते न नित्यं विदितं भवेत्तत् ।
शंसस्व वायो कुलशालिनी तां हृता मृता वा पथि वर्तते वा ॥१७
इतीव तं शोकविधेयदेहं गमं विसंज्ञं विलपन्तमेवम् ।
उवाच सौमित्रिरदीनसत्त्वो न्याय्ये स्थितः कालयुतं च वाक्यम ।।१८
शोकं विमुञ्चार्य धृति भजस्व सोत्साहता चास्तु विमागणेऽस्याः ।
उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु ॥१९
इतीव सौमित्रिमुदप्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः ।
न चिन्तयामास धृति विमुक्तवान् पुनश्च दुःखं महदभ्युपागमत् ॥२०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशातसहस्रिकाया संहिनायाम अरण्यकाण्डे दुःखानुचिन्तन नाम त्रिष्टिततमः मर्ग: चतुःषष्टितमः सर्गः रामक्रोधः

स दोनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ॥ १
अपि गोदावरीं सीता पद्मान्यायितुं गता । एवमुक्तस्तु रामेण लक्ष्मण पुनरेव हि ॥२
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः । तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत् ॥३
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ॥४