पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिषष्टितमः सर्गः

त्रिषष्टितमः सर्गः

दुःखानुचिन्तनम्
स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः ।
विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम् ॥१
स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः ।
उवाच वाक्यं व्यसनानुरूपमुष्णं विनिश्वस्य रुदन् सशोकम् ॥२
न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुंधरायाम ।
शोकेन शोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च ।।३
पूर्व मया नूनमभीप्सितानि पापानि कर्माण्यसकृत् कृतानि ।
तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ।।४
राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः ।
सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि ।।५
सर्व तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम् ।
सीतावियोगात पुनरप्युदीर्ण काष्ठैरिवाग्निः सहसा प्रदीप्तः ॥६
सा नृनमार्या मम राक्षसेन बलाद्धृता ख समुपेत्य भीरुः ।
अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ॥७
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य ।
वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः ।।८
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुश्चितकेशभारम् ।
रक्षोवशं नूनमुपागताया न भ्राजते राहुमुग्वे यथेन्दुः ॥९
तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः ।
रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ।।१०
मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा ।
नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ।।११
अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा ।
कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम् ।।१२