पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे द्विषष्टितमः सर्गः राघवविलापः

सीतामपश्यन् धर्मात्मा शोकोपहतचेतनः । विललाप महाबाहू रामः कमललोचनः ॥१
पश्यन्निव स तां सीतामपश्यन् मदनार्दितः । उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ।।२
त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये । आवृणोषि शरीरं ते मम शोकविवर्धनी ।।३
कदलीकाण्डसादृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगगूहितुम ।।४
कर्णिकारवनं भद्रे हसन्ती देवि सेवसे । अलं ते परिहासेन मम बाधावहेन वै ।।५
परिहासेन किं सीते परिश्रान्तस्य मे प्रिये । अयं स परिहासोऽपि साधु देवि न रोचते ॥६
विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहासप्रियं प्रिये ॥७
आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव । सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा ।। ८
न हि सा विलपन्तं मामुपसंगैति लक्ष्मण | एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण ॥९
शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः । हा ममार्ये क्व यातासि हा माध्वि वरवर्णिनि ।।१०
हा सकामाद्य कैकेयी देवी सापि भविष्यति । सीतया सह निर्यातो विना सीतामुपागतः ॥ ११
कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः । निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ।। १२
कातरत्वं प्रकाशं हि सीतापनयनेन मे निवृत्तवनवासश्च जनकं मिथिलाधिपम् ।।१३
कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् । विदेहराजो नूनं मां दृष्ट्वा विरहितं तया ॥१४
सुतास्नेहेन संतप्तो मोहस्व वशमेष्यति । अथवा न गमिष्यामि पुरीं भरतपालिताम ।।१५
स्वर्गोऽपि सीतया हीनः शून्य एव मतो मम । मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम।।१६
न त्वहं तां विना सीतां जीवेयं हि कथंचन । गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्वया ।। १७
अनुज्ञातोऽसि रामेण पालयेति वसुंधराम् । अम्बा च मम कैकयी सुमित्रा च त्वया विभो ॥ १८
कौसल्या च यथान्यायमभिवाद्या ममाज्ञया । रक्षणीया प्रयत्नेन भवता सूक्तकारिणा ॥ १९
सीतायाश्च विनाशोऽयं मम चामित्रकर्शन | विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ॥२०
इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या ।
भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव ।।२१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां सहितायाम् अरण्यकाण्डे राघवविलापो नाम द्विषष्टितमः सर्गः