पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकषष्टितमः सर्गः.

मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् । क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे ।।१० त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः । इतीव विलपन् रामः सीतादर्शनलालसः ।। ११ न ददर्श सुदु स्कर्तो राघवो जनकात्मजाम् । अनासादयमानं तं सीतां शोकपरायणम् ।।१२ पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्चरम् । लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया । १३ मा विपादं महाबुद्धे कुरु यत्नं मया सह । इदं गिरिवरं शूर बहुकन्दरशोभितम् ।।१४ प्रियकाननसंचारा बनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥ १५ मरितं वापि संतप्ता मीनवजुलसेविताम् । स्नातुकामा निलीना स्याद्धासकामा वने क्वचित ॥ १६ विग्रामयितुकामा वा लीना स्यात् कानने क्वचित् । जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ।। १७ तस्या ह्यन्वेपणे श्रीमन् क्षिप्रमेव यतावहै । वनं सर्वं विचिन्वानौ यत्र सा जनकात्मजा ॥ १८ मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः। एवमुक्तस्तु सौहार्दालक्ष्मणेन समाहितः ॥ १९ सह सौमित्रिणा रामो विचेतुमुपचक्रमे । तौ क्नानि गिरीश्चैव सरितश्च सरांसि च ॥२० निग्विलेन विचिन्वानौ सीतां दशरथात्मजौ । तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ।। २१ निग्विलेन विचिन्वन्तौ नैव तामभिजग्मतुः । विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ।।२२ नेह पश्यामि सौमित्र वैदेहीं पर्वते शुभाम् । ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् ॥ २३ विचरन दण्डकारण्यं भ्रातरं दीप्ततेजसम् । प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ॥ २४ यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् । एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः ।।२५ उवाच दीनया वाचा दु:खाभिहतचेतनः । वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥ २६ गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः । न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥२७ एवं स विलपन् रामः सीताहरणकर्शितः । दीनः शोकसमाविष्टो मुहूर्त विह्वलोऽभवन् ॥२८ स विह्वलिनसर्वाङ्गो गतबुद्धिर्विचेतनः । निषसादातुरो दीनो निःश्वस्याशीतमायतम् ।। २९ बहुशः स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचक्रोश बहुशो बाष्पगद्गदः॥३० तं ततः सान्त्वयामास लक्ष्मणः प्रिययान्धवः । बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः ।। ३१ अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम् । अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः॥३२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकायां संहितायाम् अरण्यकाण्डे सीतान्वेषणं नाम एकषष्टितमः सर्गः