पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् । ततोऽविदूरे रामेण समीयाय स लक्ष्मणः ॥ १५
विषण्णः सुविषण्णेन दुःखितो दुःखभागिना । संजगहेंऽथ तं भ्राता दृष्टा' लक्ष्मणमागतम् ।। १६
विहाय सीतां विजने वने राक्षससेविते । गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः ।।१७
उवाच मधुरोदर्कमिदं वचनमार्तवत् । अहो लक्ष्मण गर्ह्य ते कृतं यस्त्वं विहाय ताम् ॥ १८
सीतामिहागतः सौम्य कश्चित् स्वस्ति भवेदिह । न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा ।। १९
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः । अशुभान्येव भूयिष्ठ यथा प्रादुर्भवन्ति मे ॥२०
अपि लक्ष्मण सीतायाः सामग्न्यं प्राप्नुयावहे । जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य बें ॥ २१
यथा वै मृगसाश्च गोमायुश्चैव भैरवम् । वाशन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ।।२२
अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ॥
इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम् ।
हतं कथंचिन्महता श्रमेण स राक्षसोऽभूम्रियमाण एव ॥२३
मनश्च मे दीनमिहाप्रहपं चक्षुश्च सव्यं कुरुते विकारम् ।
असंशयं लक्ष्मण नास्ति सीता हृता मता वा पथि वर्तते वा ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिम्हसिकायां सहिनायाम् अरण्यकाण्डे रामप्रत्यागमन नाम समपञ्चश: सर्ग:

अष्टपञ्चाशः सर्गः अनिमित्तदर्शनम्

स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ।।१
प्रस्थित दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ।।२
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः । क्व सा दुःखसहाया मे वैदेही तनुमध्यमा॥३
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम । क्व सा प्राणसहाया मे सीता सुरसुतोपमा ।।४
पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण । तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ।।५
कश्चिजीवति वैदेही प्राणैः प्रियतरा मम । कश्चित् प्रवाजनं सौम्य न मे मिध्या भविष्यति ।।६
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि । कश्चित् सकामा सुखिता कैकेयी सा भविष्यति ।।७