पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तपश्चाशः सर्गः

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।। चिन्तयामास गोमायोः स्वरेण परिशङ्कितः।।३
अशुभं बत मन्येऽहं गोमायुर्वाशते यथा । स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥४
मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् । आक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ।।५
स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलीम् । तथैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ।। ६
राक्षसैः सहितैर्ननं सीताया ईप्सितो वधः । काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ।।७
दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः । हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह॥ ८
अपि स्वस्ति भवेद्द्वाभ्यां रहिताभ्यां मया वने । जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः॥ ९
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च । इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम ॥१०
आत्मनश्चापनयनान्मृगरूपेण रक्षसा । आजगाम जनस्श्रानं राघवः परिशङ्कितः ।।११
तं दीनमानसं दीनमासंदुर्मृगपक्षिणः । सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ।।१२
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः । न्यवर्तवाथ त्वरितो जवेनाश्रममात्मनः ॥ १३
म तु भीतां वगरोहां लक्ष्मणं च महाबलम । आजगाम जनस्थान चिन्तयन्नेव राघवः ।। १४