पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्पञ्चाशः सर्गः

षट्पञ्चाशः सर्गः वत्सरावधिकरणम्

सा तथोक्ता तु वैदेही निर्मया शोककर्शिता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ।।१
राजा दशरथो नाम धर्मसेतुरिवाचलः । सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ।।२
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः । दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम |३|
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः । लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् हरिष्यति ॥ ४
प्रत्यक्षं यद्यहं तस्य त्वया त्यां धर्षिता बलात् । शयिता त्वं हतः संख्ये जनस्थाने यथा खरः ॥ ५
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः । राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ।।६
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः । शरीरं विधमिष्यन्ति गङ्गाकूलभिवोर्मयः ।।७
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण । उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ।।८
स ते जीवितशेपस्य राघवोऽन्तकरो बली । पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ।। ९
यदि पश्येत् स रामस्त्वां रोपदीप्तेन चक्षुपा । रक्षस्त्वमद्य निर्दग्धो यथा रुद्रेण मन्मथः॥१०
यश्चन्द्र नभसो भूमौ पातयेन्नाशयेत वा । सागरं शोषयेद्वापि स सीतां भोचयेदिह ।।११
गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः । लङ्का वैधव्यसंयुक्ता त्वत्कृते न भविष्यति ॥ १२
न ते पापमिदं कर्म सुखोदर्कं भविष्यति । याहं नीता विनाभावं पतिपार्श्वात्त्वया बलात् ।। १३
स हि देवरसंयुक्तो मम भर्ता महाद्युतिः । निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके ॥ १४
म ते दंप बलं वीर्यमुत्सेकं च तथाविधम । अपनेष्यति गात्रेभ्यः शेरवर्षेण संयुगे॥ १५
यदा विनाशो भूतानां दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ।। १६
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम । आत्मनो राक्षसानां च वधायान्तःपुरस्य च ॥ १७
न शक्या यज्ञमध्यस्था वेदिः मुग्भाण्डमण्डिता । द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् ॥ १८
तथाहं धर्मनित्यस्य धर्मपत्नी पतिव्रता । त्वया स्पष्टुं न शक्यास्मि राक्षसाधम पापिना ।। १९
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा। हंसी सा तृणपण्डस्थं कथं द्रक्ष्येत मद्गुकम् ॥ २०
इदं शरीरं निःसंज्ञं बन्ध वा खादयस्व वा। नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ।। २१
न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः । एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः ।। २२