पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चपञ्चाशः सर्गः

ततस्तु सीतामुपलभ्य रावणः सुसंप्रह्यष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ॥३० इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे लङ्काप्रापणं नाम चतुःपञ्चाशः सर्गः

पञ्चपञ्चाशः सर्गः सीतापिलोमनोद्यमः संदिश्य राक्षसान घोरान् रावणोष्टौ महाबलान् । आत्मानं बुद्धिवैक्लब्यात् कृतकृत्यममन्यत ॥ १ स चिन्तयानो वैदेहीं कामबाणप्रपीडितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥२ स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः । अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ॥३ अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् । वायुवेगैरिवाक्रान्तां मजन्तीं नावमर्णवे ॥४ मृगयूथपरिभ्रष्टां सृगी श्वभिरिवावृताम् । अधोमुखमुखीं सीतामभ्येत्य च निशाचरः ।।५ तां तु शोकपरां दीनामवशां राक्षसाधिपः । स बलादर्शयामास गृहं देवगृहोपमम् ॥६ हर्म्यप्रामादसंबाधं स्त्रीसहस्रनिपेवितम् । नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥७ दान्तकैस्तापनीयैश्च स्फाटिकै राजतैरपि । वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ।।८ दिव्यदुन्दुभिनिर्ह्रीदं तप्तकाञ्चनतोरणम् । सोपानं काञ्चनं चित्रमारुरोह तया सह ॥९ दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः । हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः ।। १० सुधामणिविचित्राणि भूमिभागानि सर्वशः । दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥ ११ दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः । रावणो दर्शयामास सीतां शोकपरायणाम् ।। १२ दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् । उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥ १३ दश राक्षसकोट्यश्च द्वाविंशतिरथापराः । तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ॥ १४ वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान् । सहस्रमेकमेकस्य मम कार्यपुरःसरम् ।।१५ यदिदं राजतन्त्रं मे त्वयि सर्व प्रतिष्ठितम् । जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी॥ १६ बहूनां स्त्रीसहस्राणां मम योऽसौ परिप्रहः । तासां त्वमीश्वरी सीते मम भार्या भव प्रिये ।।१७ साधु किं तेऽन्यथा बुद्ध्या रोचयस्व वचो मम । भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि ॥१८ परिक्षिप्ता समुद्रेण लक्केयं शतयोजना । देयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः।। १९ न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु । अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ।।२० राज्यभ्रष्टेन दीनेन तापसेन पदातिना । किं करिष्यसि रामेण मानुषेणाल्पतेजसा । २१ भजस्व सीते मामेव भार्ताव सदृशस्तव । यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह ।।२२