पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् । तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः ॥ ३४
अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम् । विददार नखैरस्य तुण्डं पृष्ठे समर्पयन् ॥
केशांश्चोत्पाटयामास नखपक्षमुखायुधः। स सथा गृध्रराजेन विश्यमानो मुहुर्मुहुः ।। ३६
अमर्षस्फुरितोष्ठः सन् प्राकम्पत स रावणः । स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः ॥ ३७
तलेनाभिजधानाशु जटायु क्रोधमूछितः । जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः ।। ३८
वामवाहून दश तदा व्यपाहरदरिंदमः । संछिन्नबाहोः सद्यैव बाहवः सहसाभवन् । ३९
विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः । ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः ॥ ४०
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् । ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः । ४१
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च । तस्य न्यायच्छमानस्य रामस्याथै स' रावणः ।।
पक्षी पाचौं च पादौ च खड्गमुद्धृत्य सोऽच्छिनत् । स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा।।४३
निपपात हतो गृध्रो धरण्यामल्पजीवितः । तं दृष्टा पतितं भूमौ क्षतजार्द्रं जटायुषम् ॥ ४४
अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता ॥
तं नीलजीमूतनिकाशकल्पं सपाण्डरोरस्कमुदारवीर्यम् ।
ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥ ४५
ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् ।
पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ।। ४६
४६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे जटायूरावणयुद्धं नाम एकपञ्चाशः सर्गः द्विपञ्चाशः सर्गः सीताविक्रोशः

तमल्पजीवितं गृधं स्फुरन्तं राक्षसाधिपः । ददर्श भूमौ पतितं समीपे राघवाश्रमात् । ॥ १
सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता॥ २
आलिङ्ग्य गृध्रं निहतं रावणेन बलीयसा । विललाप सुदुःखार्ता सीता शशिनिभानना ।। ३
निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम् । अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ।। ४
नूनं राम न जानासि महद्व्यसनमात्मनः । धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ॥ ५
अयं हि कृपया राम मां त्रातुमभिसंगतः। शेते विनिहतो भूमौ ममाभाग्याद्विहंगमः ॥ ६ ॥