पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ततो नालीकनाराचैस्तीक्ष्णाप्रैश्च विकर्णिभिः । अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ।। ५
स तानि शरजालानि गृध्रः पत्ररथेश्वरः । जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥ ६
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः । चकार बहुधा गात्रे व्रणान् पतगसत्तमः ।। ७
अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान् घोरञ्शत्रोर्निधनकाम्यया ॥ ८
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः । बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः ।। ९
स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् । अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रवत् ॥१०
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥ ११
ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्च्छितः । ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः ॥ १२
शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमुपसंप्राप्तः पक्षीव प्रबभौ तदा ।। १३
स तानि शरवर्षाणि पक्षाभ्यां च विधूय च । चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ॥ १४
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् । पक्षाभ्यां स महावीर्यो व्याधुनोत् पतगेश्वरः ।। १५
काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् । तांश्चास्य जवसंपन्नाञ्जघान समरे बली ॥ १६
वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् । मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ।। १७
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः मह । पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥ १८
सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः । पुनर्व्यपाहरच्छ्रीमान् पक्षिराजो महाबलः ।। १९
स भग्नधन्वा विरथो हताश्वो हतसारथिः । अङ्केनादाय वैदेहीं पपात भुवि रावणः ।। २०
दृष्ट्वा निपतितं भूमौ गवणं भग्नवाहनम् । साधु साध्विति भूतानि गृध्रराजमपूजयन् ॥ २१
परिश्रान्तं तु तं दृष्टा जरया पक्षियूथपम् । उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ।। २२
तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् । गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम् ।। २३
समावार्य महातेजा जटायुरिदमब्रवीत् । वज्रसंस्पर्शबाणस्य भार्या रामस्य रावण ।। २४
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् । समित्रबन्धुः सामात्यः सबलः सपरिच्छदः ।। २५
विषपानं पिबस्येतत् पिपासित इवोदकम् । अनुबन्धमजानन्तः कर्मणामविचक्षणाः ।। २६
शीघ्रमेव विनश्यन्ति यथा व विनशिष्यसि । बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे ।। २७
वधाय बडिशं गृह्य सामिषं जलजो यथा । न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ॥ २८
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ । यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ।। २९
तस्कराचरितो मार्गो नैष वीरनिषेवितः । युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ।। ३०
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा । परेतकाले पुरुषो यत् कर्म प्रतिपद्यते ॥ ३१
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् । पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् ॥३२
कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि । एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः॥ ३३