पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम । न हि दुष्टात्मनामार्यमावसत्यालये चिरम् ॥ १२
विषये वा पुरे वा ते यदा रामो महाबलः । मापराध्यति धर्मात्मा कथं तस्यापराध्यसि ॥ १३
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्व रामेणाक्लिष्टकर्मणा ।। १४
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः । यस्य त्वं लोकनाथस्य भाषां हत्वा गमिष्यसि ।। १५
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा ।। १६
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे । ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ।। १७
स भारः सौम्य भर्तव्यो यो नरं नावसदयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ १८
यत् कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि । शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् ॥ १९
षष्टिर्वर्षसहस्राणि मम जातस्य रावण । पितृपैतामहं राज्यं यथावदनुतिष्ठतः ॥ २०
वृद्धोऽहं त्वं युवा धन्वी सशरः कवची रथी। तथाप्यादाय वैदेहीं फुशली न गमिष्यसि ॥ २१
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः । हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ।। २२
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा पूर्व खरस्तथा । २३
असकृत् संयुगे येन निहता दैत्यदानवाः । न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति ।। २४
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ । क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ॥ २५
न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् । सीतां कमलपत्राक्षीं रामस्य महिषी प्रियाम् ॥ २६
अवश्यं तु मया कार्य प्रियं तस्य महात्मनः । जीवितेनापि रामस्य तथा दशरथस्य च ॥ २७
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण । युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ।। २८
वृन्तादिव फलं त्वां तु पातयेय रथोत्तमात् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे जटायुरभियोगो नाम पञ्चाशः सर्गः

एकपञ्चाशः सर्गः जटायूरावणयुद्धम्

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा । क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ।। १
संरक्तनयनः कोपात् तप्तकाञ्चनकुण्डलः । राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥ २
स संप्रहारस्तुमुलस्तयोस्तस्मिन् महावने । बभूव वातोद्धतयोर्मेघयोर्गगने यथा ॥ ३
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा । सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ ४