पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः । माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् ॥ ३१
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः । हंसकारण्डवाकीर्णा वन्दे गोदावरीं नदीम् ॥ ३२
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।दैवतानि च यान्यस्मिन् वने विविधपादपे॥ ३३
नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् । यानि कानिचिदप्यत्र सत्त्वानि निवसन्त्युत ॥ ३४
सर्वाणि शरणं यामि मृगपक्षिगणानपि । ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ।। ३५
विवशापहृता सीता रावणेनेति शंसत । विदित्वा मां महाबाहुरमुत्रापि महाबलः॥ ३६
आनेष्यति पराक्रम्य वैवस्वतहतामपि । सा तदा करुणा वाचो विलपन्ती सुदुःखिता॥ ३७
वनस्पतिगतं गृध्रं ददर्शायतलोचना । मा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ।। ३८
समाक्रन्दद्भयपरा दुःखोपहतया गिरा। जटायो पश्य मामार्य ह्रियमाणामनाथवत् ॥ ३९
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा । नैष वारयितुं शक्यस्तव क्रूरो निशाचरः।। ४०
सत्त्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः । रामाय तु यथातत्त्वं जटायो हरणं मम ॥ ४१
लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे सीतापहरणं नाम एकोनपञ्चाशः सर्गः

पञ्चाशः सर्गः जटायुरभियोगः

तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे । निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥ १
ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः । वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ।। २
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः । भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम् ।। ३
जटायुर्नाम नाम्राहं गृध्रराजो महाबलः । राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ॥ ४
लोकानां च हिते युक्तो रामो दशरथात्मजः । तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ॥ ५
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि । कथं राजा स्थितो धर्मे परदारान् परामृशेत् ॥ ६
रक्षणीया विशेषेण राजदारा महाबल । निवर्तय मतिं नीचां परदाराभिमर्शनात् ।। ७
न तत् समाचरेद्धीरो यत् परोऽस्य विगर्हयेत् । यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ॥ ८
धर्ममर्थं च कामं च शिष्टाः शास्त्रेष्वनागतम् । व्यवस्यन्ति न राजानः पौलस्त्यफुलनन्दन । ९
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः । धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ १०
पापस्वभावश्चपलः कथं त्वं रक्षसां वर । ऐश्वर्यमभिसंप्राप्तो विमानमिव दुष्कृती॥ ११