पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि । सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ।। ४२
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि । अग्निं प्रज्वलितं दृष्ट्रा वस्त्रेणाहर्तुमिच्छसि ।। ४३
कल्याणवृत्तां रामस्य यो भार्यां हर्तुमिच्छसि । अयोमुखानां शूलानां मध्ये चरितुमिच्छसि ॥ ४४
रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ।।
यदन्तरं सिंहशृगालयोर्वने यदन्तरं स्यन्दिनिकासमुद्रयोः ।
सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं वै तव राधवस्य च ॥ ४५
यदन्तरं काञ्चनसीसलोयोर्यदन्तरं चन्दनवारिपङ्कयोः ।
यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च ।। ४६
यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि ।
यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ।। ४७
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।
हृतापि तेऽहं न जरां गमिष्ये वनं यथा मक्षिकयावगीर्णम् ।। ४८
इतीव तद्वाक्यमदुष्टभावा सुधृष्टमुक्त्वा रजनीचरं तम् ।
गात्रप्रकम्पाद्व्यथिता बभूव वातोद्धता सा कदलीव तन्वी ।। ४९
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः ।
कुलं बलं नाम च कर्म च स्वं समाचचक्षे भयकारणार्थम् ।। ५०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे रावणाधिक्षेपो नाम सप्तचत्वारिंशः सर्गः

अष्टचत्वारिंशः सर्गः रावणविकत्थनम्

एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ।। १
भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ।। २
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ।। ३
येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे । द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ ४
यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ ५
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् । वीर्यादेवार्जितं भद्रे येन यामि विहायसम् ।। ६