पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् । स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ।। १२
अभ्यगच्छत वैदेहीं हृष्टचेता निशाचरः । स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ॥ १३
अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः । तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ।। १४
विभ्राजमानां वपुषा रावणः प्रशशंस ह । का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ।। १५
कमलानां शुभा मालां पद्मिनीव हि बिभ्रती । ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने ॥ १६
भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी । समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव ॥ १७
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके । विशालं जघनं पीनमूरू करिकरोपमौ ॥ १८
एतावुपचितौ वृत्तौ संहतौ संप्रवल्गितौ । पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ । १९
मणिप्रकाभरणौ रुचिरौ ते पयोधरौ । चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।। २०
मनो हरसि मे कान्ते नदी कूलमिवाम्भसा । करान्तमितमध्यासि सुकेशी संहतस्तनी ॥ २१
नैव देवो न गन्धर्वो न यक्षी न च किंनरी । नैवंरूपा मया नारी दृष्टपूर्वा महीतले । २२
रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते । इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ।। २३
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि । राक्षसानामयं वासो घोराणां कामरूपिणाम् ।। २४
प्रासादाग्राणि रम्याणि नगरोपवनानि च । संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ २५
वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने । भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥ २६
का त्वं भवसि रुद्राणां मरुतां का वरानने । वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ २७
नेहागच्छन्ति गन्धर्वा न देवा न च किंनराः। राक्षसानामयं वासः कथं नु त्वमिहागता ॥ २८
इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा । ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥ २९
मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् । कथमेका महारण्ये न बिभेषि वरानने ॥ ३०
कासि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान् । एका चरसि कल्याणि घोरान् राक्षससेवितान् ।। ३१
इति प्रशस्ता वैदेही रावणेन दुरात्मना । द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ।। ३२
सर्वैरतिथिसत्कारैः पूजयामास मैथिली । उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।। ३३
अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ।।
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् ।
अशक्यमुद्द्वेष्टुमुपायदर्शनान्न्यमन्त्रयद्ब्राह्मणवत्तदाङ्गना ।। ३४