पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पुनरेव ततो दूरावृक्षषण्डाद्विनिःसृतम् । दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ।। १२
भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः । सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः ।। १३
संधाय सुदृढे चापे विकृष्य बलवद्बली । तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ।। १४
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् । शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ।। १५
मारीचस्यैव हृदयं बिभेदाशनिसंनिभः । तालमात्रमथोत्प्लुत्य न्यपतत् स शरातुरः।। १६
विनदन् भैरवं नादं धरण्यामल्पजीवितः । म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ॥ १७
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् । इह प्रस्थापयेत् सीता शून्ये तां रावणो हरेत्॥ १८
स प्राप्तकालमाज्ञाय चकार च ततः स्वरम् । सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ।। १९
तेन मर्मणि निर्विद्धः शरेणानुपमेन च । मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमास्थितः ॥ २०
चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् । ततो विचत्रकेयूरः सर्वाभरणभूषितः ।। २१
हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः । तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ।। २२
रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले । जगाम मनसा सोतां लक्ष्मणस्य वचः स्मरन् ।। २३
मारीचस्यैव मायैषा पूर्वोक्तं लक्ष्मणेन तु । तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥ २४
हा सीते लक्ष्मणेत्येवमाक्रुश्य च महास्वनम् । ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत् ।।२५
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति । इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ।। २६
तत्र रामं भयं तीव्रमाविवेश विषादजम् । राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ॥ २७
निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥ २८

इत्याद्ये श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् अरण्यकाण्डे मारीचवञ्चना नाम चतुश्चत्वारिंशः सर्गः

पञ्चचत्वारिंशः सर्गः सीतापारुष्यम्

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ १
नहि मे हृदयं स्थाने जीवितं वावतिष्ठते । क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ।। २
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि । तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ।। ३
रक्षसां वशमापन्नं सिंहानामिव गोवृषम् । न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ।। ४
तमुवाच ततस्तत्र कुपिता जनकात्मजा । सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥ ५