पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स कदाचिच्चिराल्लोभादाससाद महामुनिम् । अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह ॥ ४१
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् । उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् ॥ ४२
त्वयाविगण्य वातापे परिभूताः स्वतेजसा । जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ।। ४३
तदेतन्न भवेद्रक्षो वातापिरिव लक्ष्मण । मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ॥ ४४
भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः । इह त्वं भव सनद्धो यन्त्रितो रक्ष मैथिलीम् ॥ ४५
अस्यामायत्तमस्माकं यत् कृत्यं रघुनन्दन । अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम् ।। ४६
यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् । पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् ॥ ४७
त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति । अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ।। ४८
यावन् पृषतमेकेन सायकेन निहन्म्यहम् । हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ।। ४९
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ।
भवाप्रमत्तः परिगृह्य मैथिली प्रतिक्षणं सर्वत एव शङ्कितः॥ ५०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां अरण्यकाण्डे लक्ष्मणशङ्काप्रतिसमाधानं नाम त्रिचत्वारिंशः सर्गः

चतुश्चत्वारिंशः सर्गः मारीचवञ्चना

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥ १
ततस्त्र्यवनतं चापमादायात्मविभूषणम् । आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः॥ २
तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत् ॥ ३
बद्धासिधनुरादाय प्रदुद्राव यतो मृगः । तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ।। ४
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने । अतिवृत्तमिषोः पाताल्लोभयानं कदाचन ।। ५
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे । दृश्यमानमदृश्यं च वनोद्देशेषु केचित् ।। ६
छिन्नाभैरिव संवीतं शारदं चन्द्रमण्डलम् । मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते ॥ ७
दर्शनादर्शनादेवं सोऽपाकर्षत राघवम् । सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः॥ ८
असीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः । अथावतस्थे संभ्रान्तश्छायामाश्रित्य शाद्वले ॥ ९
स तमुन्मादयामास मृगरूपो निशाचरः। मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ।। १०
ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत । तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत् ॥ ११