पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स विमुक्तो महाबाणो निर्घातसमनिःस्वनः । रामेण धनुरायम्य खरस्योरसि चापतत् ॥ २६
स पपात खरो भूमौ दह्यमानः शराग्निना । रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्तकः ॥ २७
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा। बलो वेन्द्राशनिहतो निपपात हतः खरः॥ २८
ततो राजर्षयः सर्वे संगताः परमर्षयः । सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ २९
एतदर्थ महाभाग महेन्द्रः पाकशासनः । शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः ॥ ३०
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः । एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ॥ ३१
तदिदं नः कृतं कार्य त्वया दशरथात्मज । सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ॥ ३२
एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः । दुन्दुभीश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः ।। ३३
रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा । अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः ।। ३४
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । खरदूषणमुख्यानां निहतानि महाहवे ॥ ३५
अहो बत महत् कर्म रामस्य विदितात्मनः । अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते ॥ ३६
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् । एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया ॥ ३७
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी । ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ॥ ३८
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः । तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ॥ ३९
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे । मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् ।। ४०
रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा ॥
ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैमहर्षिभिः ।
पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥ ४१
इत्याद्ये श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे खरसंहारो नाम त्रिंशः सर्ग:

एकत्रिंशः सर्गः
रावणखरवृत्तोपलम्भः
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ १
जनस्थानस्थिता राजन् राक्षमा बहवो हताः । खरश्च निहतः संख्ये कथंचिदहमागतः ॥ २
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः । अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥ ३