पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः सर्गः
खरसंहारः
मित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः । स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ १
एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ।। २
एषा बाणविनिर्भिन्ना गदा भूमितलं गता। अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ॥ ३
यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम् । राक्षसानां करोमीति मिथ्या तदपि ते वचः ।। ४
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः । प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥ ५
अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम् । विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ।। ६
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः । स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव ।। ७
प्रवृद्धनिद्रे शयियते त्वयि राक्षसपांसने । भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥ ८
जनस्थाने हतस्थाने तव राक्षस मच्छरैः । निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥ ९
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः । बाष्पार्द्रवदना दीना भयादन्यभयावहाः ।। १०
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थिकाः । अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः। ११
नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक । यत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः ।। १२
तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे । खरो निर्भर्त्सयामाम रोषात् खरतरस्वनः ।। १३
दृढं खल्वलिप्तोऽसि भयेष्वपि च निर्भयः । वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥१४
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये । कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ॥ १५
एवमुक्त्वा ततो रामं संरुध्य भ्रकुटी ततः । स ददर्श महासालमविदूरे निशाचरः॥ १६
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् । स तमुत्पाटयामास संदश्य दशनच्छदम् ।। १७
तं समुत्पाट्य बाहुभ्यां विनद्य च महाबलः । राममुद्दिश्य चिक्षेप हनस्त्वमिति चाब्रवीत् ॥ १८
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् । रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ।। १९
जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः । निर्बिभेद सहस्रेण बाणानां समरे खरम् ।। २०
तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् । गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ।। २१
विह्वलः स कृतो बाणैः खरो रामेण संयुगे । मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् ।। २२
तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् । अपासर्पद् द्वित्रपदं किंचित्त्वरितविक्रमः ।। २३
ततः पावकसंकाशं वधाय समरे शरम् । खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ।। २४
स तं दत्तं मघवता सुरराजेन धीमता । संदधे चापि धर्मात्मा मुमोच च खरं प्रति ॥ २५

+