पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामस्य बाणाभिहरैर्विचित्रैः शूलपट्टिशैः । विच्छिन्नैः समरे भूमिर्विकीर्णाभूद्भयंकरा ।। ४५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे खरसैन्यावमर्दो नाम पञ्चविंशः सर्गः

षड्विंशः सर्गः
दूषणादिवधः
दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः । संदिदेश महाबाहुर्भीमवेगान् दुरासदान् ।। १
राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः । ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि ।। २
शरवर्षैरविच्छिन्नं ववृषुस्तं समन्ततः । स द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।। ३
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः । प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ।। ४
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् । ततः क्रोधसमाविष्टः प्रदीप्त इव पावकः ।। ५
शरैरवाकिरत् सैन्यं सर्वतः सहदूषणम् । ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ।। ६
शरैरशनिकल्पैस्तं राघवं समवाकिरत् । ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद्धनुः ॥ ७
चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् । हत्वा चाश्वाञ्शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ।। ८
शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि । स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।। ९
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् । वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् ।। १०
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् । वनाशनिसमस्पर्शं परगोपुरदारणम् ॥ ११
त्रासनं सर्वभूतानां काञ्चनाङ्गदभूषणम् । तं महोरगसंकाशं प्रगृह्म परिघं रणे ।। १२
दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः । तस्याभिपतमानस्य दूषणस्य स राघवः ।। १३
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ । भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि । १४
परिघच्छिन्नहस्तस्य शक्रध्वज इवाग्रतः । स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।। १५
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः । ते दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ॥ १६
साधु साध्विति काकुत्थं सर्वभूतान्यपूजयन् । एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्यायिनः ॥ १७