पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः । विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः ।। १५
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् । ततो रामः सुसंकुद्धो मण्डलीकृतकार्मुकः ।। १६
ससर्ज निशितान् बाणाञ्शतशोऽथ सहस्रशः । दुरावारान् दुर्विषहान् कालदण्डोपमान् रणे ।। १७
मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् । ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ।। १८
आददू रक्षसां प्राणान् पाशाः कालकृता इव । भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ॥ १९
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः । असंख्येयास्तु रामस्य सायकाश्चापमण्डलान् ।। २०
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः । धनूंषि च ध्वजाग्राणि वर्माणि च शिरांसि च ॥ २१
बाहून् सहस्ताभरणान् ऊरून् करिकरोपमान् । चिच्छेद रामः समरे शतशोऽथ सहस्रशः ।। २२
हयान् काञ्चनसंनाहान् रथयुक्तान् ससारथीन् । गजांश्च सगजारोहान् सहयान् सादिनस्तथा ॥२३
चिच्छिदुर्बिभिदुश्वापि रामचापगुणाच्च्युताः । पदातीन् समरे हत्वा ह्यनयद्यमसादनम् ।। २४
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ।। २५
तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः। रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ।। २६
केचिद्भीमबलाः शूराः शूलान् खड्गान् परश्वधान् । रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान्।।२७
तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः । जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ।। २८
ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः । सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ २९
अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः । खरमेवाभ्यधावन्त शरणार्थ शरार्दिताः ।। ३०
तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः । अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ।। ३१
निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः । राममेवाभ्यधावन्त सालतालशिलायुधाः ।। ३२
शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः । सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे। ३३
द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः। तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्पणम् ।। ३४
रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् । ते समन्तादभिकुद्धा राघवं पुनरभ्ययुः ।। ३५
तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः । राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः॥ ३६
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् । संयोजयत गान्धर्वं राक्षसेषु महाबलः ।। ३७
ततः शरसहस्राणि निर्ययुश्चापमण्डलात् । सर्वा दश दिशो बाणैरावार्यन्त समागतैः॥ ३८
नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान् । विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः॥ ३९
शरान्धकारमाकाशमावृणोत् सदिवाकरम् । बभूवावस्थितो रामः प्रवमन्निव ताञ्शरान् ।। ४०
युगपत् पतमानैश्च युगपच्च हतैर्भृशम् । युगपत् पतितैश्चैव विकीर्णा वसुधाभवत् ।। ४१
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः । तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ।। ४२
सोष्णीषैरत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा । ऊरुभिर्जानुभिश्छिन्नैर्नानारूपविभूषणैः ॥ ४३
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः । चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि ॥ ४४