पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् । वितत्य च धनुर्भीमं तूण्याश्वोद्धृत्य सायकान् ।। ३३
क्रोधमाहारयत्तीव्रं वधार्थ सर्वरक्षसाम् । दुष्प्रेक्षः सोऽभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन् ।। ३४
तं दृष्ट्वा तेजसाविष्टं प्राद्रवन् वनदेवताः । तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे सदा ।। ३५
दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ॥
तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः ।
बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रवृन्दम् ।। ३६
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे रामखरबलसंनिकर्षो नाम चतुर्विंशः सर्गः

पञ्चविंशः सर्गः
खरसैन्यावमर्दः
अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरःसरैः ।। १
तं दृष्ट्वा सशरं चापमुद्यम्य खरनिःस्वनम् । रामस्याभिमुखं सूतं चोद्यतामित्यचोदयात् ।। २
स खरस्याज्ञया सूतस्तुरगान् समचोदयत् । यत्र रामो महाबाहुरेको धून्वन् स्थितो धनुः ।। ३
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः । नर्दमाना महानादं सचिवाः पर्यवारयन् ।। ४
स तेषां यातुधानानां मध्ये रथगतः खरः । बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ।। ५
ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्या महानादं ननाद समरे खरः ।। ६
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः । रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ।। ७
मुद्गरैः पट्टिशैः शूलैः प्रासैः खड्गैः परश्वधैः । राक्षसाः समरे रामं निजघ्नू रोषतत्पराः॥ ८
ते वलाहकसंकाशा महानादा महौजसः । अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ।। ९
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः । ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः॥ १०
शैलेन्द्रमिव धाराभिर्वर्षमाणा वलाहकाः। स तैः परिवृतो घोरै राघवो रक्षसां गणैः ॥ ११
तिथिष्विव महादेवो वृतः परिषदां गणैः । तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥ १२
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः। स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे। १३
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः । स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ।। १४