पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

राक्षसानां सुघोराणां सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् ।। २२
तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् । खरस्यापि रथः किंचिज्जगाम तदनन्तरम् ॥ २३
ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान् । खरस्य मतिमाज्ञाय सारथिः समचोदयत् ॥ २४
स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः । शब्देनापूरयामास दिशश्च प्रदिशस्तदा ॥ २५
प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथान्तकः ।
अचूचुदत् सारथिमुन्नदन् घनं महाबलो मेघ इवाश्मवर्षवान् ॥ २६
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे खरसंनाहो नाम द्वाविंशः सर्ग:

त्रयोविंशः सर्गः
उत्पातदर्शनम्

तस्मिन् याते जनस्थानादशिवं शोणितोदकम् । अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥ १
निपेतुस्तुरगास्तम्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ २
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् । अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥ ३
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् । समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥ ४
जनस्थानसमीपे तु समागम्य खरस्वनाः । विस्वरान् विविधांश्चक्रुर्मांसादा मृगपक्षिणः॥ ५
व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् । अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥ ६
प्रभिन्नगिरिसंकाशास्तोयशोणितधारिणः । आकाशं तदनाकाशं चक्रुर्भीमा वलाहकाः ॥ ७
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् । दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे॥ ८
क्षतजार्द्रसवर्णाभा सन्ध्या कालं विना बभौ । खरस्याभिमुखा नेदुम्तदा घोरमृगाः खगाः॥ ९
कङ्कगोमायुगृधाश्च चुक्रुशुर्भयशंसिनः । नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः ॥ १०
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः । कबन्धः परिघाभासो दृश्यते भास्करान्तिके ॥ ११
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः । प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः ॥ १२
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः । संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः ॥ १३
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्दुमाः । उद्धूतश्च विना वातं रेणुर्जलधरारुणः ॥ १४
वीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः । उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः ॥ १५
प्रचचाल मही सर्वा सशैलवनकानना । खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥ १६
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत । सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः॥ १७