पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ श्रीमहाल्मीकिरामायणे भरण्यकाण्डे

जितः स्वर्गस्तव भात्रा भरतेन महात्मना । वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥
न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति । ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥
मर्ता दशरथो यस्याः साधुश्च भरतः सुतः । कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥
इत्येवं लक्ष्मणे वाक्यं स्नेहाब्रुवति धार्मिके । परिवादं जनन्यास्तमसहन राघवोऽब्रवीत् ॥ ३६
न तेऽम्या मध्यमा तात गर्हितव्या कथंचन । तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ ३७
निश्चितापि हि मे बुद्धिर्वनवासे दृढता । भरतस्नेहसंतप्ता बालिशीक्रियते पुनः ।। ३८
संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च । धान्यमृतकल्पानि मनःप्रह्लादनानि च ।।
कदा न्वहं समेष्यामि भरतेन महात्मना । शत्रुनेन च वीरेण त्वया च रघुनन्दन ।।
इत्येवं विलपस्तत्र प्राप्य गोदावरी नदीम् । चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ।। ४१
तर्पयित्वाथ सलिलैस्ते पितून देवतानि च । स्तुवन्ति स्मोदितं सूर्य देवताश्च समाहिताः ।।
कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन ।
कृताभिषेको गिरिराजपुत्र्या रुद्रः सनन्दी' भगवानिवेशः ।।
४३

इत्या श्रीमद्रामायणे पाल्मीकीय आदिकाव्ये चतुर्विंशतिसहमिकाया संहितायाम् अरण्यकाण्ढे हेमन्तवर्णन नम पोडशः सर्गः सप्तदशः सर्गः शूर्पणखामावाविष्करणम्

कृताभिषेको रामस्तु सीता सौमित्रिरेव च । तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ।।
आश्रमं तमुपागम्य राघवः सहलक्ष्ममः । कृत्वा पौर्वाहिकं कर्म पर्णशालामुपागमत् ।।
प्रवास सुखितस्तत्र पूज्यमानो महर्षिभिः । लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ।।
स रामः पर्णशालायामासीनः सह सीतया । विरराज महाबाहुश्वित्रया चन्द्रमा इव ।।
तथासीनस्य रामस्य कथासंसक्तचेतसः । तं देशं राक्षसी काचिदाजगाम यदृच्छया ॥
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥
सिंहोरकं महाबाहुं पद्मपत्रनिभेक्षणम् । आजानुबाहुं दीमास्यमतीव प्रियदर्शनम् ।।
गजविक्रान्तगमनं जटामण्डलधारिणम् । सुफुमारं महासत्त्वं पार्थिवव्यन्ननान्वितम् ।।
राममिन्दीवरश्यामं कंदर्पसदृशप्रभम् । बभूवेन्द्रोपमं दृष्टा राक्षसी काममोहिता ॥
मुमुख दुर्मुखी रामं वृत्तमध्यं महोदरी । विशालाक्षं विरूपाक्षी मुकेशं तानमूर्धजा ॥