पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२० श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः । अदिति च दितिं चैव वनुमप्यथ कालिकाम् ॥ ११
ताम्रां क्रोधवशां चैव मर्नु चाप्यनलामपि । तास्तु कन्यारततः प्रीतः कश्यपः पुनरब्रवीत् ।। १२
पुत्रांस्तैलोक्यभर्तृन् वै जनयिष्यथ मत्समान् । अदितिस्तन्मना गम दितिश्च दनुरेव च ॥ १३
कालिका च महाबाहो शेषास्त्वमनसोऽभवन् । अदित्यां जहिरे देवालयरिंशदरिंदम ॥ १४
आदित्या बसबो रुद्रा झश्विनौ च परंतप । दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः ॥ १५
तेषामियं वसुमती पुरासीत् सवनार्णवा । दनुस्त्वजनयत् पुत्रमश्वप्रीवमरिंदम ।।
नरकं कालकं चैव कालिकापि व्यजायत । क्रौञ्ची भासी तथा श्येनी धृतराष्ट्रीं तथा शुकीम् ।।
ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः। उलूकाञ्जनयत् क्रौञ्ची भासी भासान् व्यजायत ।
श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः। धृतराष्ट्री तु इंसांश्च कलहंसांश्च सर्वशः ।। १९
चक्रवाकांश्च भद्रे ते विजने सापि भामिनी । शुकी नतां विजज्ञे तु नताया विनता सुता ॥ २०
दश क्रोधवशा राम विजज्ञे ह्यात्मसंभवाः । मृगी च मृगमन्दां च हरिं भद्रमदामपि ।। २१
मातङ्गीमपि शार्दूलीं श्वेतां च सुरभि तथा । सर्वलक्षणसंपन्नां सुरसां कद्रुकामपि ।।
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाश्च मृगभन्दायाः मृभराश्चमरास्तथा ॥
हर्याश्च हरयोऽपत्यं वानराश्च तरविनः । ततस्विरावतीं नाम जो भद्रमदा सुताम् ॥
तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः । मातङ्गास्त्वथ मातल्या अपत्यं मनुजर्षभ ।। २५
गोलागूलांश्च शार्दूली व्याघ्रांश्चाजनयन् सुतान् । दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत् सुतान् ।।
ततो दुहितरौ राम सुरभिर्द्व व्यजायत । रोहिणी नाम भद्रं ते गन्धर्वी च यशस्विनीम् ।। २७
रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुताम् । सुरसाजनयन्नारगन् राम कन्तु पन्नगान् ॥ २८
मनुर्मनुष्याञ्जनयद्राम पुत्रान् यशस्विनः । ब्राह्मणान् क्षत्रियान् वैश्याछूद्रांश्च मनुजपर्भ ।।२९
सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत । विनता च शुकी पौत्री कद्रुश्च सुरसा वसा ।।
कर्नाग सहस्रास्यं विजज्ञे धरणीधरम । द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ।। ३१
तस्माजातोऽहमरुणात् संपातिस्तु ममाग्रजः । जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ।। ३२
सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि । इदं दुर्गं हि कान्तारं मृगराक्षससेवितम् ॥ ३३
सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ।।
जटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतोऽभवत् ।
पितुर्हि शुश्राव सखित्वमात्मवाञ्जटायुपा संकथितं पुनः पुनः ।।