पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः

यस्त्वया ज्येष्टपुत्रेण ययातिरिव तारितः । विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ ।
तपसश्च प्रभावेण स्नेहादशरथस्य च । हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया ।।
इह वासं प्रतिक्षाय मया सह तपोवने । अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ॥ १९
स हि रम्यो वनोद्देशो मैथिली तन्त्र रस्यते । स देशः श्लाघनीयश्च नातिदूरे च राघव ।। २०
गोदावर्याः समीपे च मैथिली तत्र रस्यते । प्राज्वमूलफलश्चैव नानाद्विजगणायुतः ॥ २१
विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च । भवानपि सदारश्च शक्तश्च परिरक्षणे ॥
अपि चात्र वसन राम तापसान पालयिष्यसि । एतदालक्ष्यते वीर मधूकानां महद्वनम् ।। २३
उसरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता । ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ।। २४
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः । अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ॥ २५
मत्कृत्यामन्त्रयामाम तमूर्षि सत्यवादिनम् । तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ॥ २६
तदाश्रमान पञ्चवटी जग्मतुः सह सोतया ॥
गृहीतचापौ तु नराधिपात्मजौ विषक्ततृणौ समरेष्वकातरौ ।
यथोपदिष्टेन पथा महर्षिणा प्रजम्मतुः पश्चवटीं समाहितौ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे पञ्चवटीगमनं नाम त्रयोदशः सर्गः चर्तुदशः सर्गः जटायुस्संगमः

अथ पञ्चवटीं गच्छन्नन्तग रघुनन्दनः । आससाद महाकायं गृधं भीमपराक्रमम् ।। १
तं दृष्टा तौ महाभागौ वटस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणी को भवानिति ॥२
स तौ मधुरया वाचा सौम्यया प्रीणयत्रिव । उवाच वत्स मां विद्धि क्यस्यं पितुरात्मनः॥३
स त पितृसखं बुद्ध्वा पूजयामास राघवः । स तस्य फुलमव्यप्रमथ पप्रच्छ नाम च ॥ ४
रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् । आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च ।।
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान् मे निगदतः सर्वानादितः शृणु राघव ॥ ६
कर्दमः प्रथमस्तेषां विक्रीतस्तदनन्तरः । शेषश्च संश्रयश्चैव बहुपुत्रः प्रतापवान् ॥
स्थाणुर्मरीचिरत्रिश्च ऋतुव महाबलः । पुलस्त्यश्वाङ्गिराश्चैव प्रचेताः पुलहस्तथा ।
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव । कश्यपश्च माइतेजास्तेषामासीच पश्चिमः ।।
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् । षष्टिर्दुहितरो राम यशस्विन्यो महायशः ।।