पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

प्रविष्टावाश्रमपदं सीतया सह भार्यया । द्रष्टुं भवन्तमायाती शुश्रूषार्थमरिंदमौ ॥
यदत्रानन्तरं तत्त्वमाशापयितुमर्हसि । ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ॥
वैदेहीं च महाभागामिदं वचनमब्रवीत् । विष्ट्या रामश्विरस्याद्य द्रष्टुं मां समुपागतः ।। १०
मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति । गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः ।। ११
प्रवेश्यतां समीप मे किं चासौ न प्रवेशितः। एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना । १२
अभिवाद्यावीच्छिध्यस्तथेति नियताञ्जलिः । ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ।। १३
क्वासौ रामो मुनि द्रष्टुमेतु प्रविशतु स्वयम् । ततो गत्वाश्रमद्वारं शिष्येण सहलक्ष्मणः ।। १४
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् । तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं श्रुवन् ।। १५
प्रावेशयद्यथान्यायं सत्कारार्ह सुसत्कृतम् । प्रविवेश ततो रामः सीतया सहलक्ष्मणः ।। १६
प्रशान्तहरिणाकीर्णमाश्रमं यवलोकयन् । स तत्र ब्रह्मणः स्थानमग्ने स्थानं तथैव च ॥
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः । सोमस्थानं भगस्थान स्थानं कौबेरमेव च ॥ १८
धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च । नागराजस्य च स्थानमनन्तस्य महात्मनः ।। १९
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च । स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ।।
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति । ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ।। २१
तं ददर्शाप्रतो रामो मुनीनां दीप्ततेजसाम् । अब्रवीद्वचनं वीरो लक्ष्मणं लदिभवर्धनम् ।।
एष लक्ष्मण निष्कामत्यगस्त्यो भगवानृषिः । औदार्येणावगच्छामि निधानं तपसामिमम् ।।
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् । जग्राह परमप्रीतस्तस्य पादौ परंतपः ।।
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः । सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥ २५
प्रतिजमाह काकुत्स्थमर्चयित्वासनोदकैः । कुशलप्रभमुक्त्वा च ह्यास्यतामिति चाब्रवीत् ।। २६
अग्निं हुत्वा प्रदायाय॑मतिथी प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ।
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः । उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ।।
अग्निं हुत्वा प्रदायायमतिथिं प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ।। २९
दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् । राजा सर्वस्य लोकस्य धर्मचारी महारथः ॥
पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः । एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् ॥ ३१
पूजयित्वा यथाकामं पुनरेव ततोऽप्रवीत् । इदं दिव्यं महचापं हेमरमविभूषितम् ।। ३२
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा । अमोघः सूर्यसंकाशो अक्षदत्तः शरोत्तमः॥ ३३
दस्तौ मम महेन्द्रेण तूणी चाक्षयसायको । संपूर्णी निशितैर्षाणैचलगिरिव पावकैः ।।
महारजतकोशोऽयमसिहमविभूषितः । अनेन धनुषा राम हत्वा संख्ये महासुरान् ।।
आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् । तदनुस्तौ च तूणीरौ शरं खॉच मानद ॥