पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः: ३०९

तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः । गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् ।।
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह । सीतया चानया साधं छाययेवानुवृत्तया ॥ ११
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् । एषां तपस्विनां वीर सपसा भावितात्मनाम ॥ १२
समाज्यफलमूलानि पुष्पितानि वनानि च । प्रशान्तमृगयूथानि शान्तपक्षिगणानि च ॥ १३
फुलपकजषण्डानि प्रसन्नसलिलानि च । कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ १४
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च । रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ १५
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु । आगन्तव्यं त्वया सात पुनरेरवाश्रमं मम ॥
एवमुक्तस्तयेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः । प्रदक्षिणं मुनि कृत्वा प्रस्थातुमुपचक्रमे ।।
ततः शुभतरे तूणी धनुषी चायतेक्षणा । ददौ सीता तयोर्धात्रोः खड्गौ च विमौ ततः ।। १८
आबध्य च शुभे तूणी चापौ चादाय सस्वनौ । निष्कान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ ॥ १९
श्रीमन्तौ रूपसंपन्नौ दीप्यमानौ स्वतेजसा । प्रस्थितौ धृतचापौ तौ सीनया सह राघवौ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे सुतीक्ष्णाभ्यनुज्ञा नाम अष्टमः सर्गः नवमः सर्गः सीताधर्मावेदनम्

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भारमिदमब्रवीत् ॥ १
अधर्मस्तु' सुसूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन तु शक्योऽयं व्यसनात् कामजादिह ।। २
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत । मिथ्या वाक्यं गुरुतरं तस्मात् गुरुतमे उभे ॥
परदाराभिगमनं विना वैरं च रौद्रता । मिथ्या वाक्यं न ते भूतं न भविष्यति राघव ।।
कुतोऽभिलषणं खीणां परेषां धर्मनाशनम् । तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन ।।
मनस्यपि तथा राम न चैतद्विद्यते कचित् । स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज ॥
धर्मियः सत्यसन्धश्च पितुनि देशकारकः । त्वयि सत्यं च धर्मश्च त्वयि सर्व प्रतिष्ठितम् ॥
तच्च सर्वं महाबाहो शक्यं धर्तुं जितेन्द्रियैः । तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ।।
तृतीयं यदिदं रौद्रं परमाणाभिहिंसनम् । निर्वैरं क्रियते मोहात्तञ्च ते समुपस्थितम् ।।
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् । ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम ।।