पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०८ श्रीमद्वाल्मीकिरामायणे भरण्यकाण्डे

अहमेवाहरिष्यामि त्वयं लोकान् महामुने । आवासं त्वहमिच्छामि प्रदिष्टमिह कानने । १४
भवान् सर्वत्र कुशलः सर्वभूतहिते रतः । आख्यातः शरभङ्गेण गौतमेन महात्मना ।। १५
एवमुक्तस्तु रामेण महर्षिलोकविश्रुतः । अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ।।
अयमेवाश्रमो राम गुणवान् रम्यतामिह । ऋषिसझानुचरितः सदा मूलफलान्वितः ॥ १७
इममाश्रममागम्य मृगसङ्घा महीयसः । अहत्वा" प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ॥ १८
नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै । तच्छ्रुत्वा वचनं तस्य महर्षलक्ष्मणाप्रजः ।। १९
उवाच वचनं धीरो विकृष्य सशरं धनुः । तानहं सुमहाभाग मृगसङ्गान् समागतान् ।।
हन्यां निशितधारेण शरेणाशनिवर्चसा । भवास्तत्राभिषज्येत किं स्यात् कृच्छ्तरं ततः ॥
एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये । तमेवमुक्त्वोपरमं रामः सन्ध्यामुपाविशत् ॥
अन्वास्य पश्चिमा सन्ध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ २३
ततः शुभं तापसभोज्यमनं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे सुतीक्ष्णाश्रमो नाम सप्तमः सर्गः अष्टमः सर्गः सुतीक्षणाभ्यनुज्ञा

रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः । परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत ।।
उत्थाय तु यथाकालं राघवः सह सीतया । उपास्पृशन् सुशीतेन जलेनोत्पलगन्धिना ।।
अथ तेऽमिं सुरांश्चैव वैदेही रामलक्ष्मणौ । कल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ।।
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमभिगम्येदं सक्ष्णं वचनमब्रुषन् ।।
सुखोषिताः स्म भगवस्त्वया पूज्येन पूजिताः । आच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ।।
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् । ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ।।
अभ्यनुशातुमिच्छामः सहेभिर्मुनिपुंगवैः। धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः ।।
अविषह्यातपो यावत सूर्यो नातिविराजते । अमार्गेणागतां लक्ष्मी प्राप्येवान्वयवर्जितः ॥
नावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः । ववन्दे सहसौमित्रिः सीतया सह राघवः ।।