पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः ३०७

ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः । परिपालय नो राम वध्यमानानिशाचरैः ।। १९
परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते । परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज ॥ २०
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् । इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ।। २१
नैवमर्हत मां वक्तुमाज्ञाप्योऽहं तपस्विनाम् । केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥ २२
विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम । पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् ॥ २३
भवतामर्थसिद्धपर्थमागतोऽहं यहच्छया । तम्य मेऽयं वने वासो भविष्यति महाफलः ।।
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान । पश्यन्तु वीर्यसृषयः मभ्रातुर्मे तपोधनाः॥ २५
दत्त्वाभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन ।
तपोधनेश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः॥ २६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे रक्षावधप्रतिज्ञानं नाम षष्ठः सर्गः सप्तमः सर्गः सुतीक्ष्णाश्रमः

रामस्तु सहितो मात्रा मीतया च परंतपः । सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ।।
स गन्वादूग्मध्वानं नदीन्तीवा बहूदकाः । ददर्श विपुलं शैलं महामेघमिवोन्नतम् ।।
ततस्तदिक्ष्वाकुवरौ संततं विविधैर्दुमैः । काननं तौ विविशतुः सीतया सह राघवौ ॥
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम' । दर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ।।
तत्र तापसमासीनं मलपङ्कजटाधरम् । रामः सुतीक्ष्णं विधिवत्तपोधन पित ॥
रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः। तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम ।।
स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् । समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ।।
स्वागतं खलु ते वीर राम धर्मभृतां वर । आश्रमोऽयं त्वया प्राप्तः सनाथ इव सांप्रतम् ।।
प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः । देवलोकमितो वीर देहं त्यक्त्वा महीतले॥
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः । इहोपयातः काकुत्स्थ देवराजः शतक्रतुः ॥
उपागम्य च मां देवो महादेवः सुरेश्वरः । सर्वीलोकाश्रितानाह मम पुण्येन कर्मणा ।।
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया । मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः ।।
तमुग्रतपसा युक्तं महर्षिं सत्यवादिनम् । प्रत्युवाचात्मवान रामो ब्रह्माणमिव वासवः ।।