पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०६

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे
स लोकानाहिताग्नीनामृषीणां भावितात्मनाम् । देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥
स पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्श ह ।
पितामहश्यापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे शरमब्रह्मलोकप्रस्थान नाम पश्चाशः सर्गः ४४ षष्ठः सर्गः रक्षावधप्रतिज्ञानम्

शरभङ्गे दिवं याते मुनिसङ्घाः समागताः । अभ्यगच्छन्त काकुत्थं रामं ज्वलिततेजसम् ॥
वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः । अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः ॥
दन्तोलूखलिनश्चैव तथैवोन्मजकाः परे । गात्रशय्या अशय्याश्च तथैवानवकाशिकाः ॥
मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ॥
तयोर्ध्ववासिनो दान्तास्तथाईपटवाससः । सजपाश्च तपोनित्यास्तथा पश्चतपोऽन्विताः ।।
सर्वे ब्राझया श्रिया जुष्टा दृढयोगाः समाहिताः । शरभाश्रमे राममभिजग्मुश्च तापसाः ॥
अभिगम्य च धर्मशा रामं धर्मभृतां वरम् । उचुः परमधर्मज्ञमृपिसवाः सामाहिताः ।।
त्वमिक्ष्वाकुफुलस्यास्य पृथिव्याश्च महारथ । प्रधानश्वासि नाथश्च देवानां मघवानिध ।।
विश्रुतत्रिषु लोकेषु यशसा विक्रमेण च । पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः ॥
त्वामासाद्य महात्मानं धर्मशं धर्मवत्सलम् । अर्थित्वान्नाथ वक्ष्यामस्तच नः क्षन्तुमर्हसि ॥ १०
अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः। यो हरेद्धलिषड्भागं न च रक्षति पुत्रवत् ॥ ११
युआनः स्वानिव प्राणान् प्राणैरिष्ठान सुतानिव । नित्ययुक्तः सदा रक्षन सर्वान् विषयवासिनः ॥१२
प्राप्नोति शाश्वतीं राम कीर्ति स बहुवार्षिकीम । ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥ १३
यत् करोति परं धर्म मुनिर्मूलफलाशनः । तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ।। १४
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् । त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम् ।। १५
एहि पश्य शरीराणि मुनीनां भावितात्मनाम् । हतानां राक्षसै? रैर्बहूनां बहुधा वने ।। १६
पम्पानदीनिवासानामनु मन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत् ॥
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् । क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः॥ १८