पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह । रुक्मपुल्लान् महावेगान् सुपर्णानिलतुल्यगान् ॥ ११.
ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः । निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः॥ १२
स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः । अभ्यद्रवत् सुसंकुद्धस्तदा रामं सलक्ष्मणम् ॥ १३
स विनद्य महानादं शूलं शक्रध्वजोपमम् । प्रगृह्माशोभत सदा व्यात्तानन इवान्तकः ।। १४
अथ तो भ्रातरौ दीप्तं शरवर्षं ववर्षतुः । विराधे राक्षसे तस्मिन् कालान्तकयमोपमे ॥ १५
स ग्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः । जृम्भमाणस्य ते बाणाः कायानिष्पेतुराशुगाः॥ १६
स्पर्शान्तु वरदानेन प्राणान् संरुध्य राक्षसः । विराधः शूलमुधम्य राघवावभ्यधावत ।। १७
तच्छूलं वसंकाशं गगने ज्वलनोपमम् । द्वाभ्यां चिच्छेद बाणाभ्यां रामः शस्त्रभृतां वरः ।। १८
तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि । पपाताशनिना छिन्नं मेरोरिव शिलातलम ।। १९
तौ खगौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ । तूर्णमापततस्तस्य तदा प्राहरतां बलात् ।। २०
स वध्यमानः सुभृशं बाहुभ्यां परिरभ्य तौ । अप्रकम्प्यौ नरव्याघौ रौद्रः प्रस्थातुमैच्छत ॥ २१
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् । वहत्वयमलं तावत् पथानेन तु राक्षसः ।। २२
यथा चेच्छति सौमित्रे तथा बहतु राक्षसः । अयमेव हि नः पन्था येन याति निशाचरः ।। २३
स तु स्वबलवीर्येण समुक्षिप्य निशाचरः । बालाविव स्कन्धगतौ चकारातिबलोद्धतः । २४
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः। विराधो निनदन घोरं जगामाभिमुखो वनम् ।।
बनं महामेघनिभं प्रविष्टो द्रुमैमहद्भिर्विविधैरुपेतम् ।
नानाविधैः पक्षिशतैर्विचित्र शिवायुतं व्यालमृगैविकीर्णम् ॥

२६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे विराधप्रहारो नाम तृतीयः सर्गः चतुर्थः सर्गः विराधनिखननम्

ह्रियमाणौ तु तौ दृष्ट्र्वा वैदेही रामलक्ष्मणौ । उच्चैःस्वरेण चुक्रोश प्रगृह्य सुमुजा भुजौ ॥
एष दाशरथी रामः सत्यवाझीलवाञ्शुचिः। रक्षसा रौद्ररूपेण हियते सहलक्ष्मणः ॥
मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा । मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ । वेर्ग प्रचक्रतुर्वीरौ क्ये तस्य दुरात्मनः ।।