पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनविंशत्यधिकशततमः सर्गः २९७

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। ४१
इदं च धनुरुद्यम्य सव्यं यः कुरुते नरः । तस्य मे दुहिता भार्या भविष्यति न संशयः ।। ४२
तव दृष्ट्रा धनुःश्रेष्ठं गौरवागिरिसंनिमम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।
सुदीर्घस्याथ कालस्य राघवोऽयं महागुतिः। विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥
लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः । विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ । सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्गिणौ ।। ४६
धनुर्दर्शय रामाय राजपुत्राय दैविकम । इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ।।
निमेषान्तरमात्रेण वदानम्य स वीर्यवान् । ज्यां समारोप्य झटिति पूरयामास वीर्यवान् ॥
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः । तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ।। ४९
सतोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । निश्चिना दातुमुद्यम्य जलभाजनमुत्तमम् ।।
दीयमानां न तु तदा प्रतिजग्राह राघवः । अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः॥ ५१
ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । मम पित्रा त्वहं दत्ता रामाय विदितात्मने । ५२
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५३
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयंवरे । अनुरक्तास्मि धर्मेण पतिं वीर्यक्तां वरम् ।। ५४

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाय्ये चतुर्विशतिसहस्रिकायां

संहितायाम्

अयोध्याकाण्डे दिव्याङ्कालरग्रहणं नाम अष्टादशाधिकशततमः सर्ग: एकोनविंशत्यधिकशततमः सर्गः दण्डकारण्यप्रवेशः

अनसूया तु धर्मज्ञा श्रुत्वा तां महती कथाम । पर्यध्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।।
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयंवरं वृत्तं तत् सर्व हि श्रुतं मया ॥
रमेऽहं कथया ते तु दृढं मधुरभाषिणि । रविरस्तं गतः श्रीमानुपोह्य रजनी शिवाम् ।।
दिवसंप्रति कीर्णानामाहारार्थ पतत्रिणाम् । सन्ध्याकाले निलीनानां निद्राथ श्रूयते ध्वनिः ।।
एते चाप्यभिषेकाा मुनयः कलशोद्यताः । सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥
ऋषीणामनिहोत्रेषु हुतेषु विधिपूर्वकम् । कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ।।
अल्पपर्णा हि तरवो घनीभूताः समन्ततः । विप्रकृष्टेऽपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः ॥
रजनीचरसत्वानि प्रचरन्ति समन्ततः । तपोवनमृगा होते वेदितीर्थेषु शेरते ।।
संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता । ज्योत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ॥
गम्यतामनुजानामि रामस्यानुचरी भव । कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।।